________________
पाद-४, सूत्र-३६-३८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः।
[५५
तपसः क्यन् ॥ ३.४.३६ ॥
तपःशब्दात कर्मणः करोत्यर्थे क्यन् प्रत्ययो वा भवति । तपः करोति-तपस्यति । अत्र यदा व्रतपर्यायः तपःशब्दस्तदा क्यन्कर्मणो वृत्तावन्तर्भूतत्वादकर्मकत्वम् , यदा तु संतापक्रियावचनस्तदा क्यनकर्मणो वृत्तावन्तर्भावेऽपि स्वकर्मणा सकर्मक एव, शत्रूणां तपः करोति-तपस्यति शत्रूनिति, यथा व्याकरणस्य सूत्रं करोति व्याकरणं सूत्रयति ।।३६॥
न्या० स०-तपस-अतपसस्यदित्यत्राऽन्यस्येति तृतीयावयवस्य द्वित्वेऽदन्तक्यनः फलम् ।
नमो-वरिवश्चित्रकोऽर्चा-सेवाश्चर्ये । ३. ४. ३७॥
नमस् , वरिवस् , चित्र शब्देभ्यः कर्मभ्यो यथासंख्यं पूजासेवाश्चर्येष्वर्थेषु करोत्यर्थे क्यन् प्रत्ययो वा भवति । देवेभ्यो नमस्करोति-नमस्यति देवान् , गुरूणां वरिवः करोति वरिवस्यति गुरून , चित्रं करोति-चित्रीयते, डकार प्रात्मनेपदार्थः । अर्चादिष्विति किम् ? नमः करोति, वरिवः करोति,-नमोवरिवःशब्दमुच्चारयतीत्यर्थः, चित्रं करोति,-नानात्वमालेख्यं वा करोतीत्यर्थः । ननु च नमस्यति देवानित्यत्र नमःशब्दसंयोगनिबन्धना चतुर्थी कस्मान्न भवति ? उच्यते,-नामधातूनामविवक्षितप्रकृतिप्रत्ययभेदानां धातुत्वादनर्थकोऽत्र नमःशब्द, उपपदविभक्तेर्वा कारकविभक्तिर्वलीयसी, एवं च नमस्करोति देवानिति वाक्येऽपि द्वितीया सिद्धा । यद्येवं नमस्करोति देवेभ्य इति न भवितव्यम् ? नैवम् , करोतेः नमःशब्दसंबन्धन देवपदेनासंबन्धात । कस्मै इति त्वाकाङ क्षायां देवेभ्य इति संबन्धाच्चतर्थी संप्रदाने वा इत्यदोषः ॥३७॥ .
न्या० स० नमोवरि०-चित्रीयते इति-कस्य चित्रीयते न धीः इत्यकर्मक: चित्रमाश्चर्यं करोति जनस्येति विवक्षायां चित्रीयते जनं व्याकरणं सूत्रयतीतिवद् भवति ।
देवेभ्यो नमस्करोतीति-व्युत्पत्त्युपायभूतमवयवार्थप्रदर्शकं वाक्यं समुदायस्तु क्यन्नन्तोऽविद्यमानावयवार्थ एवाऽर्चालक्षणेऽर्थे वर्त्तते, एवं गुरूणां वरिवः करोतीत्यादावपि द्रष्टव्यम् । वृणीते 'स्वरेभ्यः' १-३-३० इप्रत्यये वरिः सेवकस्तत्र वसतीति विचि वरिवः । नमःकरोतीति-अत्र नमःशब्दरूपापेक्षया नपुंसकत्वे 'अनतो लुप' १-४-५९ अर्थप्रधानो ह्यऽव्ययमत्र तु शब्दप्रधानः । उपपदविभक्तेर्वेति-समुदायिन एव समुदाय इति विवक्षायां समुदायिनौ च द्वौ नमस् प्रकृतिः क्यङ च प्रत्यय, इति नमः शब्दो भिन्नोऽस्तीति प्राप्तिरस्तीत्याह-नमः शब्दसंबन्धेनेति-करोतेरसंबन्धात् केन सह ? देवपदेन, किं भूतेन ? नमः शब्देन सह संबन्धो यस्य तेनानया युक्त्या कारकविभक्तेः प्राप्तिर्नास्ति ।
अङ्गानिरसने णिङ् ॥ ३. ४. ३८ ॥
अङ्गवाचिनः शब्दात् कर्मणो निरसनेऽर्थे णिङ् प्रत्ययो वा भवति । हस्तौ निरस्यति हस्तयते, पादयते, ग्रोवयते । निरसने इति किम् ? हस्तं करोति हस्तयति । कर्मण इति किम् ? हस्तेन निरस्यति । डकार आत्मनेपदार्थः ।।३।।