________________
पाद-४, सूत्र २४-२५ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[५१
न्या० स०-अमाव्य:-कीयांचकारेत्यादौ क्यनः सस्वरत्वे आम् सिद्धः । आधाराचोपमानादाचारे ॥ ३. ४. २४॥
अमाव्ययादुपमानभूताद् द्वितीयान्तादाधाराच्चाचारार्थे क्यन प्रत्ययो भवति वा । पुत्रामिवाचरति पुत्रीयति छात्त्रम् , वस्त्रीयति कम्बलम् , पुत्रीयति स्थूलं दर्शनीयं वा, आधाराव-प्रासाद इवाचरति प्रासादायति कुट्याम् , पर्यकीयति मञ्चके। उपमानादिति किम् ? छात्रादेर्माभूत । प्राधाराच्चेति किम् ? परशूना दात्रेणेवाचरति । अमाव्ययादिति किम् ? इदमिवाचरति, स्वरिवाचरति । उपमानस्य नित्यमुपमेयापेक्षत्वात सापेक्षत्वेऽप्यसामर्थ्य न भवति ॥ २४ ॥
कर्तः किप गल्भ-क्लीब-होडात्तु ङित् ॥ ३. ४. २५ ॥
कर्तु रुपमानानाम्न प्राचारेऽर्थे किम् प्रत्ययो वा भवति गल्भक्लीबहोडेभ्यः पुनः स एव डिन् । अश्व इवाचरति अश्वति, एवं गर्दभति, दधयति, गवा, नावा, अःप्रत्ययः । राजेवाचरति राजनति, मधुलिड्विाचरति-मधुलेहति, गोधुगिवाचरति गोदोहति ।
गल्भक्लीबहोडात्तु डिव-गल्भते, अवगल्भते, क्लीबते, विक्लीबते, होडते, विहोडते, गल्मांचके, अवगल्भांचक्रे, ङित्त्वादात्मनेपदं भवति । एके तु कर्तुः संबन्धिन उपमानात द्वितीयान्तात् क्विप्क्यङाविच्छन्ति । अश्वमिवात्मानमाचरति गर्दभः अश्वति, श्येनमिवास्मानमाचरति काकः श्येनायते, तन्मतसंग्रहार्थं कर्तुरिति षष्ठी व्याख्येया। द्वितीयाया इति चानुवर्तनीयम् , क्विबिति पूर्वप्रसिद्धयनुवादः ॥ २५ ।।. . . :
न्या० स०-कर्तुः क्विप्-गवेति-गौरिवाचरति क्विपि लुपि गवनं 'शंसिप्रत्ययादयः' ५-३-१०५ एवं नावेत्यत्र । राजनतीति-अस्य क्विपो व्यञ्जनादिफलं नेष्यते, तेन नाम सिदिति पदसंज्ञाया अभावे न लोपाभावः सिद्धः । गल्भांचके इति-गल्भि धाष्ट्ये इत्यादिभिमू लोदाहरणानि सिध्यन्ति,पर गल्भाचक इत्यादिष्वाम् न स्यात् ।
- एके त्विति-ते हिं मन्यन्ते द्वितीयाया इत्यनुवृत्तावपि कत्तु रिति विशेषणं संबन्धषष्ठ्यामुपपद्यते, तेनाऽयमर्थः कर्तुर्यत् कर्मोपमानभूतं ततः क्विक्यङाविति ।
द्वितीयान्तादिति-कर्मण इत्यर्थः, ननु कर्ता कारकं कर्म च तयोश्चायःशलाकाकल्पयोरनभिसंबन्धो न हि कतु: कर्म भवति अपि तु क्रियायाः कर्ता कर्म च संपद्यते तत्र साध्यसाधनभावलक्षणसंबन्धोऽस्ति न तु परस्परम् ? सत्यं, न कत्तु रित्यनेन कर्मकारकशक्तिविशिष्यते अपि तृपमानादितीहानुवर्तते, तेन कर्मणो योऽसावुपमानमश्वादिरस्ति स कर्तु रित्यनेन विशिष्यते कर्तु यदुपादानं कर्म तस्मात् क्विबिति, नन्विदमप्यचारु, कर्तु : किल कर्म कथमुपमानमस्तु अत्यन्तवैलक्षण्यात् ? सत्यं, एवं कर्तु: कर्म उपमानं भवति, यदि स एव का आचरणक्रियायाः कर्म भवति, यथा अश्वमिवात्मानमाचरति गईभः अत्र आचरण क्रियायाः गईभः कर्ता स एवात्मभेदेन कर्म, एकस्यैवात्मभेदाद् अनेककारकशक्त्यावेशो दृश्यते, यथोच्यते हन्त्यात्मानमात्मनेति । श्येन इवाचरति काको मत्स्यमित्यत्र न भवति,