________________
५० ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-२१-२३
पञ्चभ्या णिग् बाधते, प्रेषरूपे प्रयोक्तृव्यापारे णिग् पञ्चमी प्रेषविशिष्टे कर्तरि वाच्ये भवति, इति समानविषयत्वं ततो णिग् बाध्यते । तहि मूलोदाहरणेष्वपि पञ्चमी प्राप्नोति ? न, प्रेषणमात्रे णिगुक्तः पञ्चमी तु प्रेषणविशिष्टे क दौ, यदा तु प्रेषणमात्रं विवक्ष्यते तदा णिग् तद्विशिष्टे तु कर्नादौ पञ्चमी, कारयित्वित्यादौ प्रेषणस्यापि प्रेषणविवक्षा।
तुमर्हादिच्छायां सन्नतत्सनः ॥ ३. ४. २१ ॥
यो धातुरिणः कर्म इषिणैव च समानकर्तृकः स तुमर्हः, तस्मादिच्छायामर्थे सन् प्रत्ययो वा भवति, न चेत्स इच्छासन्नन्तो भवति । कर्तुमिच्छति चिकोर्षति, गन्तुमिच्छति जिगमिषति । तुमर्हादिति किम् ? अकर्मणोऽसमानकर्तृकाच्च माभूत् , गमनेनेच्छति । भोजनमिच्छति देवदत्तस्य । इच्छायामिति किम् ? भोक्तुव्रजति । अतत्सन इति किम् ? किचोषितुमिच्छति । तद्ग्रहणं किम् ? जुगुप्सिषते । सनोऽकारः किम् ? अर्थान् प्रतीषिषति, नकारः सन्ग्रहणेषु विशेषणार्थः । कथं नदीकूलं पिपतिपति, श्वा मुमूर्षति, पतितुमिच्छति मर्तुमिच्छति इति वाक्यवदुपमानाद्भविष्यति ।। २१॥
न्या० स० तुमर्हा:-भोजनमिच्छतीति-अत्र 'शकधृष' ५-४-९० इति न तुम् तुल्यकर्तृ कत्वाभावात् । चिकाषितुमिच्छतीति-चिकीर्षणं 'शकधृष' ५-४-९० इति तुम् ।
द्वितीयायाः काम्यः ॥ ३. ४. २२ ॥
द्वितीयान्तानाम्न इच्छायामर्थे काम्यप्रत्ययो वा भवति । पुत्रमिच्छति पुत्रकाम्यति. इदंकाम्यति, स्वःकाम्यति,-काम्येनैव कर्मण उक्तत्वाद्भावकोरेव प्रयोगः । पुत्रकाम्यतेऽनेन, पुत्रकाम्यत्यसौ। द्वितीयाया इति किम् ? इष्टः पुत्रः, इष्यते पुत्रः । इह कस्मान्न भवति भ्रातु: पुत्रमिच्छति आत्मनः पुत्रमिच्छति महान्तं पुत्रमिच्छति पुत्रमिच्छति स्थलं दर्शनीयं वा ? सापेक्षत्वात् ,-नान्यमपेक्षमाणोऽन्येन सहैकार्थीभावमनुभवितुं शक्नोति । भ्रातुष्पुत्रकाम्यतीत्यादि तु समर्थत्वात् , अधमिच्छति, दुःखमिच्छतीत्यत्रापि परस्येत्यपेक्षितत्वात् सापेक्षत्वम् । कथं तर्हि पुत्रकाम्यति ? इत्यत्र पुत्रस्यात्मीयता गम्यतेऽन्यस्याश्रुतेः इच्छायाश्चात्मविषयत्वात् ।। २२ ।।
न्या० स० द्वितीया०-सस्वरस्य काम्यस्य फलमजघटकाम्यत् काम्यांचकारेत्यादौ । परस्येत्यपेक्षितत्वादितिः-न हि कोप्यात्मनोऽघादीच्छति ।
अमाव्ययात् क्यन् ॥ ३. ४. २३॥
अमकारान्तादनव्ययाच्च द्वितीयान्तानाम्न इच्छायामर्थे क्यन् प्रत्ययो वा भवति काम्यश्च । पुत्रमिच्छति पुत्रीयति, एवं नाव्यति, वाच्यति, चकारः काम्यार्थोऽन्यथा मान्ताव्यययोः सावकाशः स क्यना बाध्येत । अमाव्ययादिति किम् ? इदमिच्छति, स्वरिच्छति । गोशब्दसंध्यक्षरवर्जस्वरनान्तेभ्य एव क्यनमिच्छन्त्यन्ये-गव्यति, पुत्रीयति, राजीयति । अन्यत्र न भवति । यमिच्छति, कमिच्छति । नकारः क्यनीत्यत्र विशेषणार्थः, ककारः क्यग्रहणे सामान्यग्रहणार्थः ॥ २३ ॥