________________
पाद - ४, सूत्र - २० ]
श्रीसिद्धहेमचन्द्र शब्दानुशासने तृतीयोऽध्यायः
[ ४९
प्रयोक्तृव्यापारे णिग् । ३. ४.२० ॥
कर्तारं यः प्रयुङ्क्ते स प्रयोक्ता, तद्व्यापारेऽभिधेये धातोर्णिग् प्रत्ययो वा भवति । व्यापारश्च प्रेषणाध्येषण- निमित्त-भावाख्यानाभिनय - ज्ञानप्राप्तिभेदैरनेकधा भवति । तत्र तिरस्कारपूर्वको व्यापारः प्रेषणम्, सत्कारपूर्वकस्त्वध्येषणम् ।
कुर्वन्तं प्रयुङ्क्ते कारयति, पचन्तं प्रयुङ्क्ते पाचयति-अत्र प्रेषणेनाध्येषणेन वा यथासंभवं प्रयोक्तृत्वम्, वसन्तं प्रयुङ्क्ते वासयति भिक्षा, कारीषाग्निरध्यापयति-प्रत्र निमित्तभावेन, राजानमागच्छन्तं प्रयुङ्क्ते राजानमागमयति, मृगान् रमयति, रात्रि विवासयति कथकः, -अत्राख्यानेन, श्राख्यानेन हि बुद्धचारूढा राजादयः प्रयुक्ताः प्रतीयन्ते, कंसं घ्नन्तं प्रयुङ्क्ते कंसं घातयति, बलि बन्धयति नटः, -अत्राभिनयेन । पुष्येण युञ्जन्तं प्रयुङ्क्ते पुष्येण योजयति चन्द्रम्, मघाभिर्योजयति गणकः - अत्र कालज्ञानेन, उज्जयिन्याः प्रदोषे प्रस्थितो माहिष्मत्यां सूर्य मुद्गच्छन्तं प्रयुङ्क्ते माहिष्मत्यां सूर्यमुद्गमयति, रैवतकात् प्रस्थितः शत्रुञ्जये सूर्यं पातयति, अत्र प्राप्त्या । ननु च कर्तापि करणादीनां प्रयोजक इति तद्व्यापारेऽपि जिग् प्राप्नोति ? नैवम् प्रयोक्तृग्रहणसामर्थ्यात्, तथा क्रियां कुर्वन्नेव कर्ताभिधीयते, तेन तूष्णीमासीने प्रयोज्ये मा पृच्छतु भवान् अनुयुङ्क्तां मा भवानित्यत्र णिग् न भवति पञ्चम्या बाधितत्वाद्वा । वाधिकार आ बहुलवचनात् पक्षे वाक्यार्थः ॥ २० ॥
,
न्या० स० प्रयोक्तृव्या० : - मृगान् रमयतीति- रममाणान् मृगान् कथयन् तेषां प्रयोजको भवति । कथनेन यदारण्यस्थो रममाणान् मृगान् प्रतिपाद्यमाचष्टे एतस्मिन्नवकाश एव मृगा रमन्ते इति तदास्य प्रतिपाद्यदर्शनार्था प्रवृत्तिर्भवति, तस्यां च णिग् वक्तव्यः । बुद्धारूढा इति बुद्धिषु श्रोतॄणां चित्तेषु आरूढाः सत्तामापन्नाः प्रयुक्ताः प्रवर्तिताः प्रतीयन्ते । राजादीनां हि उभयत्र भावो बहिरन्तश्च । तत्राख्यात्रा बहिर्भावस्य कर्तु - मशक्यत्वेऽपि अन्तर्भावस्य सुशकत्वाद् बहिःप्रयोगाभावेऽप्यन्तः प्रयोगात्प्रयोक्तृत्वमिति । कंसं घातयतीति - अयं नटः कौशलात्तथा सरसमभिनयति यथा कंसवधाय बलिबन्धनाय चायमेव नारायणं प्रयुङ्क्ते इति परेषां प्रतिपत्तिर्भवतीति ।
माहिष्मत्यामिति - महिषा अत्र सन्ति 'नडकुमुद' ६-२-७४ इति डिति मतौ अन्त्यलोपे 'धुटस्तृतीय' २-१-७६ इति डत्वं प्राप्तं असिद्धं बहिरङ्गम् इत्यनेन व्युदस्यते, न च 'स्वरस्य' ७-४- ११० इति स्थानित्वेऽकारेण व्यवधानमिति वाच्यं, 'न सन्धि' ७-४-१११ इत्यस्य असदुद्विधावस्थानात् । महिष्मति भवा 'भवे' ६-३ - १२३ (इति) अण् । रैवतकादिति - राया द्रव्येण वन्यन्ते स्म क्ते रेवृङ रेवत इति 'पुतपित्त' २०४ ( उणादि ) निपातो वा रैवता वृक्षास्ते सन्त्यत्र 'अरीहणादेरकण्' ६-२-८३ । ननु च कर्त्तापि कररणादीनामिति - अयमर्थः, -कटं करोतीत्यादौ मुख्यकर्तृ व्यापारेऽपि णिग् प्राप्नोति, अत्रापि प्रयोक्तृव्यापारस्य विद्यमानत्वात् । तथाहि कटं करोतीति कोऽर्थः ? जायमानं जनयतीत्यर्थः, इत्याशङ्कायामाह प्रयोक्तृग्रहणसामर्थ्यादिति कर्त्तारं यः प्रयुङ्क्ते स हि प्रयोक्ता, यदि च व्यापारमाणग् स्यात्तदा व्यापारे णिगित्येवोच्येत । तेन तूष्णीमासीने इति - प्रयोज्ये प्रच्छ्ये तूष्णीमासीने प्रयोजकः प्रच्छिक्रियायाः कारयिताह मां पृच्छतु भवानिति । पश्वभ्या बाधिताद्वेति अथवा सव्यापारेऽपि प्रयोज्ये परत्वात् 'प्रेषानुज्ञावसरे' ५ - ४ - २६ इति विहितया