________________
४८ ]
बृहद्वृत्ति - लघुग्याससंवलिते [ पाद- ४, सूत्र - १८-१९
स्वरण, शारण, कुमारण, कलण, शीलण, वेलकालण, पल्यूलण, अंशण, पषण, गवेषण, मृषण, रसण, वासण्, निवासण्, चहण्, महण्, रहण्, रहुण, स्पृहण, रूक्षण, मृगणि, अर्थणि, पदणि, संग्रामणि, शूरवीरणि, सत्रणि, स्थूलणि, गर्वणि, गृहणि, कुहणि इति चुरादयः ।
श्रादन्तत्वं च सुखादीनां णिच्संनियोगे एव द्रष्टव्यम् तेन णिजभावे जगरणतुः जगणिथेत्यत्र अनेकस्वरत्वाभावादाम् न भवति । अनित्यो हि णिच् चुरादीनाम्, 'घुषेरविशब्दे' (४-४-६९) इत्यत्र ज्ञापयिष्यते । बहुवचनमाकृतिगणार्थम् तेन संवाहयतीति सिद्धम् ।। १७ ।।
1
न्या० स० - चुरादिभ्योः चकार इति चकारे तु सति निरनुबन्धस्य णेरभावात् सामान्येन ग्रहणं भवति । ज्ञाण्-मारणादीनां निद्दिष्टार्थानामिह दर्शनमर्थान्तरेऽमीषां तु चुरादिपाठो नेष्यते इति ज्ञापनार्थम् । हन्त्यर्थाश्चेति- सर्वे हन्त्यर्था धातवोऽत्र पठितव्या:, तेन णिज्शवादिकं च कार्यं भवति । सुखादीनामिति अङ्कादीनामिति वक्तव्येङ्कब्लेष्कयोः फलाभावात् सुखादीनामित्युक्तम् । पूर्वाचार्यानुरोधेन त्वऽदंतमध्ये पठति । श्रनेकस्वरत्वाभावादिति-द्वित्वे सत्येकस्वरत्वेऽपि सन्निपातन्यायान्न भवति । संनिपातनिमित्तं ह्यनेकस्वरत्वम् । संवाहयतीति - अङ्गानि मृद्नाति इत्यर्थः ।
युजादेर्नवा ॥ ३. ४. १८ ॥
चुराद्यन्तर्गणो युजादिः, युजादिभ्यो धातुभ्यः स्वार्थे णिच् प्रत्ययो भवति वा । योजयति, योजति, साहयति, सहति, सहति, कलमेभ्यः, परिभवम् । युजण्, लीण्, मीण, प्रीग्ण, धूग्ण, वृग्ण, जण्, चीक्, शीकण्, मार्गण्, पृचण्, रिचण्, वचण्, अचिण्, वृजैण, मृण्, कठण् श्रन्य, ग्रन्थण्, क्रथ, अदिण्, श्रथण्, वदिण्, छदण्, आङ: सदण् गतौ । छ्दण्, शुन्धिन्, तनूण् उपसर्गाद्देर्थ्ये, मानण् पूजायाम्, तपण, तृपिण् ग्राण्, हभिण, ईरण, मृषिण, 'शिषण, विपूर्वोऽतिशये' जुषण, घृषण, हिसुण, गर्हण, बहण हति युजादिः ।। १८ ।।
,
भूङः प्राप्तौ णिङ् ॥ ३. ४. ११ ॥
भुवो धातोः प्राप्तावर्थे वर्तमानात् णिङ् प्रत्ययो वा भवति । भावयते भवते प्राप्नोतीत्यर्थः । भवतीत्येवान्यत्र, णिङिति ङकार आत्मनेपदार्थः । मूङ इति ङकारनिर्देशो रिङमावेऽप्यात्मनेपदार्थः । प्राप्त्यभावेऽपि क्वचिदात्मनेपदमिष्यते यथा
'याचितारश्च नः सन्तु, दातारश्च भवामहे |
आक्रोष्टारश्च नः सन्तु क्षन्तारश्च भवामहे ॥१॥ इति
प्राप्तावपि परस्मैपदमित्यन्ये, सर्वं भवति प्राप्नोतीत्यर्थः, अवकल्कने तु भावयतीत्येव । सूण अवकल्कने इति चुरादौ पाठात् ।। १९ ।।