________________
५२ ]
बृहद्वृत्ति- लघुन्याससंवलिते
[ पाद- ४, सूत्र - २६-२९
मत्स्यमित्यनेन बाह्यकर्मणाऽसंबन्धात् । पूर्वप्रसिद्धघनुवाद इति तेनास्मिन् स्वमते कि त्पत् कार्यं न भवति, परमते तु कितः फलमाचारक्विपि 'अहनुपञ्चम० ' ४-१-१०७ इति दीर्घे इदमति कीमतीत्यादौ ।
क्यङ् ॥ ३. ४. २६ ॥
कर्तु रुपमानादाचारेऽर्थे क्यङ् प्रत्ययो वा भवति । श्येन इवाचरति श्येनायते, हंसाते, अश्वायते, गर्दभायते, गल्भायते, क्लीबायते, होडायते । क्विप्क्य ङोस्तुल्यविषयत्वादसत्युत्सर्गापवादत्वे पर्यायेण प्रयोगः । ककारः सामान्यग्रहणार्थः, ङकार प्रात्मनेपदार्थः ।। २६ ।।
न्या० स० क्यङ् क इवाचरति इति कृते कायांचक्रे इत्यत्र सस्वरस्य क्यङः फलम् ।
सो वा लुक् च ।। ३. ४. २७ ॥
स इति आवृत्त्या पश्चम्यन्तं षष्ठ्यन्तं चाभिसंबध्यते । सकारान्तात्कतु' रुपमानादाचारेऽर्थे क्यङ् प्रत्ययो वा भवति अन्त्यसकारस्य च लुग्वा भवति । पय इवाचरति पयायते, पयस्यते, सरायते, सरस्यते, अन्ये त्वप्सरस एव सलोपो नान्यस्य अप्सरायते, अन्यत्र पयस्यते इत्याद्येवेत्याहुः । क्यङ् सिद्धो लुगथं वचनम्, चकारो लुचः क्यसंनियोगार्थः ॥ २७ ॥
न्या० स० सोवा०: क्यसन्नियोगार्थ इति- समुच्चये तु स्वतन्त्रौ लुक्क्यङौ स्याताम् । अप्सरायते इति - अप्सरस्यते इत्यपि ।
ओजोऽप्सरसः । ३. ४. २८ ॥
प्रोजः शब्दो वृत्तिविषये स्वभावात्तद्वति वर्तते, ओजः शब्दादप्सरस्शब्दाच्च कर्तु - रुपमानभूतादाचारेऽर्थे क्यङ् प्रत्ययो वा भवति सलोपश्च । ओजस्वीवाचरति ओजायते, अप्सरायते । अन्ये स्वोजःशब्दे सलोपविकल्पमिच्छन्ति - श्रोजायते, ओजस्यते ॥ २८ ॥ न्या० स० ओजोप्सर० - पूर्वेणसिद्धे नित्यसलोपार्थं वचनम् ।
च्व्यर्थे भृशादेः स्तोः ॥ ३. ४. २१ ॥
च,
भृशादिभ्यः कर्तृभ्यः व्यर्थे क्यङ् प्रत्ययो वा भवति सकारतकारयोर्यथासंभवं लुक् व्यर्थे इत्यनेन लक्षणया भवत्यर्थविशिष्टं प्रागतत्तत्त्वमुच्यते, करोतिस्तु कर्तुं रित्येनन व्युदस्तः । भवत्यर्थे च विधानात् क्यङन्तस्य क्रियार्थत्वम् भवत्यर्थशब्दाप्रयोगश्च - अभृशो भृशो भवति भृशायते, उन्मनायते, वेहायते, अनोजस्वी ओजस्वी ( ओजः ) भवति ओजायते,श्रत्र तद्वद्वृत्तेरेव च्व्यर्थ इति धर्ममात्रवृत्तेर्न भवति - अनोज प्रोजो भवति । कर्तुरित्येव ? अभृशं भृशं करोति । व्यर्थ इति किम् ? भृशो भवति । प्रागतत्तत्त्वमात्रे च्वविधानात्क्यङा विर्न बाध्यते भृशीभवति । भृश, उत्सुक, शीघ्र, चपल, पण्डित, अण्डर, कण्डर, फेन,