________________
पाद- ४, सूत्र - १०-१२] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ४५
च दनीध्वस्यते इति न स्यात्, व्यञ्जनादीनामेकस्वराणामदन्तानामेव स्यात्, तथा च पापच्यते इति न स्यादिति नियमाशङ्का स्यात्तन्निवृत्त्यर्थम् ।
श्रटयर्तिसूत्रिमूत्रिसूच्यशूर्णोः ॥ ३. ४. १० ॥
एम्यो भृशाभीक्ष्ण्ये वर्तमानेभ्यो यङ् प्रत्ययो भवति । भृशं पुनःपुनर्वाटति श्रटाटयते । एवमियत ऋच्छति वा श्ररार्यते, सूत्रण सोसूत्र्यते, मूत्रण- मोमूत्र्यते, सूचण्-सोसूच्यते, अश्नुते अश्नाति वा अशाश्यते, ऊर्णु ण्क्- प्रोर्णोनूयते । अटयर्त्यशामव्यञ्जनादित्वात् सूत्रिमूत्रिसूचीनामनेकस्वरत्वात् ऊर्णोतेरव्यञ्जनाद्यनेकस्वरत्वात्पूर्वेणाप्राप्ते वचनम् ॥ १० ॥
न्या स० - अत० ङोऽदन्तत्वे अटाट्यते, अरार्यते इत्यादिषु फलम् ।
0
गत्यर्थात्कुटिले । ३. ४. ११ ॥
व्यञ्जनादेरेकस्वराद् गत्यर्थात्कुटिल एवार्थे वर्तमानात् धातोर्यङ्भवति न भृशाभीक्ष्ण्ये । कुटिलं क्रामति चंक्रम्यते, दन्द्रम्यते । कुटिल इति किम् ? भृशमभीक्ष्णं वा क्रामति । धात्वर्थविशेषणं किम् ? साधने कुटिले माभूत् कुटिलं पन्थानं गच्छति । तनकौण्डिन्यन्यायेन भृशाभीक्ष्ण्ययोनिषेधार्थं वचनम् । भृशाभीक्ष्ण्ये कुटिलयुक्ते एव यङ् न केवल इत्यन्ये, एवमुत्तरत्रापि । कथं जंगमः ? रूढिशब्दोऽयम् लक्षणया स्थावरप्रतिपक्षमात्रे वर्तते ।। ११ ॥
न्या० स० गत्यर्थात् ० :- तनकौण्डिन्येति-अयमर्थः सामान्यलक्षणस्य विधेविशेषलक्षणो विधिर्बाघको भवति, तक्रं देयमस्मै तक्रदेयः कौण्डिन्यः 'मयूर' ३-१-११६ इति देयलोपः । कथं जङ्गमः ? इति - अत्र कुटिलार्थाभावे कथं यङित्याशङ्कार्थः । लक्षणयेति यन्मुख्यं प्रवृत्तिनिमित्तं शब्दस्य तत्प्रत्यासत्त्या तदुपलक्षितं धर्मान्तरमपादाय प्रवृतिर्लक्षणा तया । गच्छतीति - ' गमेर्जं च वा' १३ ( उणादि ) इत्यऽप्रत्यये वा जमादेशे च ।
गृ-लुप सद-चर-जप-जभ-दश-दहो गये । ३. ४. १२ ॥
एवार्थे वर्तमानेभ्यो गृप्रभृतिभ्यो धातुभ्यो यङ्प्रत्ययो भवति न भृशादिषु । गर्हितं निगिरति निजेगिल्यते । एवं लोलुप्यते, सासद्यते, चञ्चूर्यते, जञ्जप्यते, जञ्जभ्यते, दन्दश्यते, दंदह्यते । दंशेः कृतनलोपस्य निर्देशो यङ्लुप्यपि नलोपार्थ: तेन दशति । गति किम् ? साधु जपति । धात्वर्थविशेषणं किम् ? साधने गा माभूत्जपति वृषलः । नियमः किम् ? भृशं पुनःपुनर्वा निगिरति कुटिलं चरतीत्यत्र न भवति ॥१२॥
1
न्या० स०- गृलुप-लोलुप्यते इति लुप्लृ ती युपरुपलुपचित्यस्य वा । चंचूर्यते इति - 'अङ हिन०' ४-१-३४ इत्यतः पूर्वादित्यधिकारात् द्वित्वे सति 'ति चोपान्त्यातः' ४-१-५४ इति उत्