________________
४४ ]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-९
मुख्यो धातुरेव । नामापि धातोः सकाशाद् भवति । उक्तं च-नाम च धातुजमाह । उत्तरार्थमिति-यदा तु 'दीर्घश्च्वियङ' ४-३-१०८ इत्यादि कित्त्वफलं तदा धातुग्रहणमत्रापि सार्थम् ।
व्यञ्जनादेरेकस्वराद् शृशाऽऽभीक्ष्ण्ये यड्वा ॥ ३. ४. १ ॥
गुणनियाणामधिश्रयणादीनां क्रियान्तराव्यवहितानां साकल्येन संपत्तिः फलातिरेको वा भृशत्वम् , प्रधानक्रियाया विक्लेदादेः क्रियान्तराव्यवधानेनावृत्तिराभीक्ष्ण्यम् , तद्विशिष्टेऽर्थे वर्तमानाद्धातोर्व्यञ्जनादेरेकस्वराद्यप्रत्ययो वा भवति । भशं पुन:पुनर्वा पचति पापच्यते, जाज्वल्यते, अथाभीक्ष्ण्ययङतस्याभीक्ष्ण्ये द्वित्वं कस्मान्न भवति ? उक्तार्थत्वात् , यदा तु भृशार्थयङतादाभीक्ष्ण्यविवक्षा-तदा भवत्येव । पापच्यते-पापच्यते इति, तथा भृशार्थयङतादाभीक्ष्ण्ये आभीक्ष्ण्ययङताद्वा भृशार्थे विवक्षिते यदा पञ्चमी केवला, तदा सा केवला तदर्थद्योतनेऽसमर्थेति तदर्थद्योतने द्विवचनमपेक्षते । पापच्यस्व पापच्यस्वेति धातोरित्येव ? तेन सोपसर्गान्न भवति । भृशं प्रात्ति । व्यञ्जनादेरिति किम् ? भशमीक्षते । एकस्वरादिति किम् ? भृशं चकास्ति । केचिज्जागर्तरिच्छन्ति-जाजाप्रीयते । सर्वस्माद्धातोरायादिप्रत्ययरहितात्केचिदिच्छन्ति-अवाव्यते, दादरिद्रयते । भृशाभीक्ष्ण्ये इति किम् ? पचति । वेति किम् ? लुनीहि लुनीहीत्येवायं लुनातीत्यादि यथा स्यात् ।।६॥
न्या० स०-व्यञ्जनादे०:--क्रियान्तराऽव्यवहितानामिति-विरोधिभिामगमनादिभिः अविरोधिभिस्तच्छवासादिभिर्भवत्येव । साकल्येन संपत्तिरिति-सामस्त्येन ढौकनमित्यर्थः । फलातिरेको वेति-फलसमाप्तावपि क्रियानुपरतिः।
प्रधानक्रियाया इति-पचौ विक्लेद: प्रधानक्रिया, तां कश्चित्समाप्य क्रियान्तरमनारभ्य पुनस्तामेव क्रियामारभते तस्याः पुनः पुनर्भाव आभीक्ष्ण्यं तदा भवत्येवेति, यदा त्वाभीक्षण्ययङन्ताद् भृशार्थविवक्षा, तदा न द्वित्वं शब्दशक्तिस्वाभाव्यात् तस्यार्थस्य यङ व प्रतिपादितत्वात् । किंच भृशत्वं गुणक्रियाणां साकल्येन संपत्तिः, आभीक्ष्ण्यं प्रधानक्रियायाआवृत्तिः, अतः प्रधानक्रियायां गुणक्रिया न्यग्भूतेति ।
यदापञ्चमीति-तहि एतस्यां विवक्षायां पञ्चम्यपि न प्राप्नोति ? न, शब्दशक्तिस्वाभाव्यात् , 'भृशाभीक्ष्ण्ये०' ५-४-४२ इति पञ्चमी भवत्येव, लुनीहिलुनीहीत्येवायमिति, न च हि-स्वविधानसामर्थ्यादेव तौ भविष्यत इति वाच्यं, स्वराद्यनेकस्वरेभ्यः तयोश्चरितार्थत्वात् , तथा यदा भृशं पचति, पचनविशिष्टो भृशार्थो धात्वर्थस्तदा वाक्यार्थमपि वा ग्रहणम् , तर्हि वाक्यार्थमिति कथं नोक्तम् ? सत्यं,-यदा पचतिना पाकः, भृशब्देन तु भृशार्थस्तदा वाक्यं सिद्धमिति वाक्यार्थमिति नोक्त पाक्षिकप्राप्तेरप्रधानत्वात् । ननु 'व्यञ्जनादेरेकस्वात्' ३-४-९ इति किमर्थ, यत उत्तरसूत्रेऽट्यतिग्रहणात् व्यञ्जनादित्वं सूत्रिमूत्रिग्रहणात् एकस्वरत्वं चात्र लप्स्यते, तस्मादुत्तरसूत्रकरणादिह 'व्यञ्जनादेरेक०' ३-४-९ एव भविष्यति ? नैवं, गत्यर्थानां भृशाभीक्ष्ण्येऽर्थे यदि यङ स्यात्तदाऽट्योरेव स्यात् , तथा