________________
पाद- ४, सूत्र - ७-८ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः ।
[ ४३
कारस्यैव भेदौ तेनात्रापि भवति, क्षेत्रे चिकित्स्यः पारदारिकः, -निग्राह्य इत्यर्थः, चिकित्स्यानि क्षेत्रे तृणानि विनाशयितव्यानि इत्यर्थः । संशयप्रतीकार इति किम् ? केतनम्, केतयति ।। ६ ।।
न्या० स० - कितः संशय ० :- अनवधारणात्मकः प्रत्ययः संशयः । प्रतीकारो दुःखहेतोर्निराकरणम् । निग्रहविनाशाविति - अन्यैनिग्रहविनाशयोरपि सन्नभिहितः तत्स्वमते कथमित्याशङ्का ।
शान्-दान-मान् बधान्निशानाऽऽर्जव- विचार - वैरूप्ये दीर्घश्चेतः
।। ३. ४. ७ ।।
शान्- दान् मान्-बघ् इत्येतेभ्यो यथासंख्यं निशाने, आर्जवे, विचारे, वैरूप्ये च वर्तमानेभ्यः स्वार्थे सन् प्रत्ययो भवति, दीर्घश्चैषां द्विर्वचने सति पूर्वस्येकारस्य । शीशांसते, शीशांसति, दीदांसति, दीदांसते, मीमांसते, बीभत्सते । अर्थनिर्देशः किम् ? अर्थान्तरे माभूत्निशानम् अवदानम्, प्रच्, - श्रवमानयति, बाधयति ॥ ७ ॥
न्या० स० - शान् ःनिन्दितरूपो विरूपः, तस्य भावो वैरूप्यम् । नन्वत्र इद्ग्रहणं किमर्थं, दीर्घ इति सामान्योक्तावपि सनि इत एव संभव : ? सत्य, अत्रेदिति ग्रहणाभावे सनि प्रथममेवाकारस्य दीर्घः स्यात्, शान्दानो: साहचर्यात् मानिर्वादिगृह्यते न तु चुरादिः ।
निश्यतीत्यचि निशानं, अवद्यतीत्यचि अवदानं, 'शोंच तक्षणे,' 'दोंच् छेदने' अनयोऽनन्तयोरिदं रूपद्वयमिति कश्चिदाशङकेत तद्व्युदासार्थमाह-अजिति ।
धातोः कण्ड्वादेर्यक् ॥ ३. ४. ८॥
द्विविधाः कण्ड्वादयः धातवो नामानि च कण्ड्वादिभ्यो धातुभ्यः स्वार्थे यक्प्रत्ययो भवति । कण्डूयति, कण्डूयते, महीयते, मन्तूयति । धातोरिति किम् ? कण्डूः, कण्ड्वौ, कण्ड्वः । यकः कित्त्वाद्धातोरेवायं विधिः । धातुग्रहणम् उत्तरार्थमिह सुखार्थं च । कण्डूग्, गकारः फलवति 'ईगित:' ( ३. ३. ६५ ) इत्यात्मनेपदार्थः । मही, हृणीङ्, वेङ्, लाङ् 'ङकार आत्मनेपदार्थः । मन्तु, वल्गु, असु, वेट्, लाट् । वेट्लाट् इत्यन्ये । लिट्, लोट्, उरस्, उषस् इरस्, तिरस्, इयस्, इमस्, अस्, पयस्, संभूयस्, दुस्, दुरज्, भिषज्, भिष्णुक्, रेखा, लेखा, एला, वेला, केला, खेला, खल इत्यन्ये । गोधा, मेधा, मगध, इरध इषुध, कुषुम्भ, सुख, दुःख, अगद, गद्गद, गद्गदङित्येके । तरण, वरण, उररण, तुरण, पुरण, भुरण, वरण, भरण, तपुस, तम्पस, प्ररर, सपर, समर इति कण्ड्वादिः ।। ८ ।।
न्या० स० धातोः कण्ड्वा०- कण्ड्व इति यदा कण्डूमिच्छन्ति क्यनि क्विपि तल्लोपे जसि 'संयोगात्' २-१-५२ इत्युवादेशे कण्डुव इति भवति । यकः कित्त्वेति- कित: फलं 'नामिनो गुणः' ४-३ - १ इत्येवमादीनि तानि च धातोरेव गौणमुख्ययोरिति न्यायात्