________________
४२]
बृहद्वृत्ति-लघुन्याससंवलिते
[पाद-४, सूत्र-३-६
र्थ्यात् याऽसौ वृद्धिः प्रवर्त्तते तयैव बाधः संपन्न इति किमर्थः प्रतिषेध इति शेष: ? सत्यं, णिङऽभावपक्षे यदा णिगुत्पद्यते तदा हस्वत्वं मा प्रापत . वद्धिरेव श्रयतामित्येवमर्थः प्रतिषेधः । 'णेरनिटि' ४-३-८३ इति च सामान्यग्रहणार्थो णकारोऽर्थवान् इति प्रतिषेधाभावे ह्रस्व: स्यादिति।।
ङकार प्रात्मनेपदार्थ इति-धात्वनुबन्धस्य अशवि चरितार्थत्वात्तदन्तस्य न प्राप्नोति । ऋतेीयः ॥ ३. ४. ३ ॥
ऋत घृणागतिस्पर्धेषु इत्यस्माद्धातोः स्वार्थे ङीयः प्रत्ययो भवति । ऋतीयते, डकार आत्मनेपदाद्यर्थः ॥ ३ ॥
न्या० स०-ऋतेमयः-आत्तितीयदित्यत्र फलमदन्तताया ङीयस्य अन्यथा आत्तितियदिति स्यात् । आत्मनेपदाद्यर्थ इति-आदिपदात् गुणाभावः । - अशवि ते वा ॥ ३. ४. ४ ॥
गुपादिभ्योऽशवि विषये ते आयादयो वा भवन्ति । गोपायिता, गोप्ता, धूपायिता, धपिता, विच्छायिता, विच्छिता, पणायिता, पणिता, पनायिता, पनिता, कामयिता, कमिता, ऋतीयिता, अतिता ॥ ४॥
गुप-तिजो गर्हा-क्षान्तो सन् ॥ ३. ४.५॥
गुपतिज इत्येताभ्यां यथासंख्यं गर्हायां क्षान्तौ च वर्तमानाभ्यां स्वार्थे सन् प्रत्ययो भवति । जुगुप्सते-गर्हते इत्यर्थः, तितिक्षते-सहते इत्यर्थः । गर्हाक्षान्ताविति किम् ? गोपनम् , गोपयति, तेजनम् , तेजयति । अनयोरर्थान्तरेऽपि त्यादयो नाभिधीयन्त इत्यत्यादिना प्रत्युदाहृतम् , एवमुत्तरसूत्रद्वयेऽपि प्रायेण ज्ञेयम् । अकारः सन्ग्रहणेषु सामान्यग्रहणार्थः, नकारः सन्यङश्चेत्यत्र विशेषणार्थः ।। ५॥
__ न्या. स०-गुपतिजो०-त्यादय इति-त्यादिसमानार्थत्वाच्छत्रानशावपि । केचिच्छत्रानशाविच्छन्ति, तेन गोपमानं, तेजमानं, केतन्तं प्रयुङ क्ते, इत्यपि भवति । प्रायेणेति भणनात् गोपते, तेजते, केतति, बघते इत्याद्यपि, अत एव रसवाचकतिक्तशब्दसाधनाय तेजते इति वाक्यं कृतं क्षीरस्वामिना । 'पुतपित्तः' २०४ (उणादि) इति साधुः ।
प्रकारः सन्ग्रहणेष्विति-अन्यथेच्छासन एव ग्रहणं स्यात् । कितः संशय-प्रतीकारे ।। ३. ४.६ ।।
कितो धातोः संशये प्रतीकारे च वर्तमानात् स्वार्थे सन् प्रत्ययो भवति । विचि. कित्सति-संशेते इत्यर्थः, व्याधि चिकित्सति-प्रतिकरोतीत्यर्थः । निग्रहविनाशौ प्रती