________________
चतुर्थः पादः गुपौ-धूप-विच्छि-पणि-पनेरायः॥ ३. ४. १ ॥
गुपादिभ्यो धातुभ्यः पर आयप्रत्ययो भवति स चानिदिष्टार्थत्वात् स्वार्थे । गोपायति, धूपायति, विच्छायति, पणायति, व्यवहरति, स्तौति चेत्यर्थः । न चोपलेभे वरिणजां पणाया:. पनायति. व्यवहारार्थात पणेनेच्छन्त्यन्ते.- शतस्य पणते । अनबन्धस्याशवि आयप्रत्ययाभावपक्षे चरितार्थत्वादायप्रत्ययान्ताभ्यां पणिपनिभ्यामात्मनेपदं न भवति । गुपावित्यौकारो गुपि गोपने इत्यस्य निवृत्यर्थः पङ्लुप्निवृत्त्यर्थश्च ॥ १॥
न्या० स०-गुपौधूप-आयस्यादन्तत्वे अजुगोपायादित्यादि सिद्धमन्यथाऽदन्तत्वाभावे 'उपान्त्यस्य' ४-२-३५ इति ह्रस्वत्वे अजुगोपयदित्यनिष्टं स्यात् । विच्छायतीति-ननु विच्छेस्तौदादिकत्वेन शविषयाभावाद् विकल्पः प्राप्नोति ? नैवं, शवोपवादत्वात् शप्रत्ययस्यापि शवशब्देनाभिधानादऽदोषः एवं चाशवीत्यनेनाशितीत्यर्थ सिद्धो भवति, अशितीत्येव वा पठनीयं धातुपारायणकृता तु मेने विच्छायति, विच्छतीति । शतरि 'अवर्णादश्न' २-१-११५ इति वा अन्तादेशे विच्छती, विच्छन्ती स्त्री कूले वा । द्रमिलास्तु शे नित्यमाय तुदादिपाठबलाच्चायव्यवायेऽपि पक्षेऽन्ताभावमिच्छन्ति विच्छायन्ती, विच्छायतो; यथा जुगुप्सते इति सना व्यवधानेऽपि आत्मनेपदम् ।
पणेर्नेच्छन्त्यन्ये इति-जयादित्यप्रभृतयः, पनि स्तुत्यर्थस्तत्साहचर्यात्पणेरपि स्तुत्यर्थादाय इति व्याख्यानयन्ति ।
गुपि गोपन इत्यस्य निवृत्त्यर्थ इति-'गुपण भासार्थः', 'गुपच व्याकुल्वे' इत्यनयोस्तु धूपसाहचर्यान्निरासः । ननु धूपश्चुरादिरप्यस्ति ? सत्यं, अणिजन्तविच्छसाहचर्यात् भौवादिकस्यैव धूपस्य ग्रहणम् । ननु विच्छिरपि भासार्थश्चुरादिस्तत्कथं तेन साहचर्यम् ? सत्यं, तस्याऽणिजन्ताभ्यां पणिपनिभ्यां साहचर्यान्निरासः।।
यङ्लुपनिवृत्त्यर्थश्चेति-ननु यङप्रत्ययस्य प्राप्तिरेव नास्ति, आयप्रत्ययेऽनेकस्वरत्वात् तत्कथं यङ लुनिवृत्त्यर्थश्चेत्युक्तम् ? सत्यं, अशविषये विकल्पितस्यायस्य प्रथमं यडि प्रकृतिग्रहणेति न्यायात्प्राप्तिः।
कमेणिङ्॥ ३. ४.२॥
कमेर्धातोः स्वार्थे णिङ् प्रत्ययो भवति । कामयते, कारो वृद्धयर्थः । कार आत्मनेपदार्थः ॥ २॥
न्या० स०-कमेणि-णकारो वृद्धधर्थ इति-यद्येवं 'अमोऽकम्यऽमिचमः' ४-२-२६ इत्यत्र कमेः प्रतिषेधो व्यर्थस्तेन ह्यस्य ह्रस्वत्वं निषिध्यते, ह्रस्वत्वस्य च णित्करणसाम