________________
बृहद्वृत्ति - लघुन्याससंवलिते [ पाद- ४, सूत्र - १३ - १७
तेन ददशीतीतिः - अन्तरङ्गानपि इति न्यायात् प्रथममेव यङने लुपि ङित्वाभावात् न लोपो न स्यात् ।
४६ ]
न गृणाशुभरुचः ॥ ३. ४. १३ ॥
शुभिरुचिभ्यो भृशाभीक्ष्ण्यादौ यङ् न भवति । गर्हितं गृणाति, भृशं शोभते, भृशं रोचते ।। १३ ।।
न्या० स०-न गृणा०:-भृशाभीक्ष्ण्यादाविति - आदिपदात् गृणातेगृह्येऽर्थे ।
बहुलं लुप् ।। ३. ४. १४ ॥
यङो लुप् बहुलं भवति । बोभूयते, बोभवीति, बोभोति; रोरूयते, रोरवीति, रोरोति; लालप्यते, लालपीति, लालप्ति; चंक्रम्यते, चंक्रपीति, चंक्रन्ति; जंजप्यते, जंजपीति, जंजप्ति । बहुलग्रहणं प्रयोगानुसरणार्थम् । तेन क्वचिन्न भवति ? लोलूया, पोपूया ।। १४ ।।
अचि ॥। ३. ४. १५ ॥
प्रचि प्रत्यये परे यङो लुप् भवति । लोलुवः, पोपुवः, सनीस्र सः, दनीध्वंसः, चेच्यः, नेन्यः । नित्यार्थं वचनम् ।। १५ ।।
न्या० स० प्रचिः - लोलुव इति - अन्तरङ्गानपि इति न्यायात् अत इति अन्तरङ्गमपि अलुकं बाधित्वा स्वरान्तस्यैव यङये लुप् । ननु यङो, लुपि 'नामिन: ' ४-३-१ इति कथं न गुणः ? 'नः वृद्धिश्चाविति' ४-३ - १ । इति निषेधात् ।
I
नोतः ।। ३. ४. १६ ॥
उकारान्ताद्विहितस्य यङोऽचि परे लुप् न भवति । योयूयः, रोरूयः ।। १६ ।
न्या० स० - नोत:- योयूप इति - अत्र पृथग्योगात् बहुलमित्यनेनापि न, अन्यथा चिनोत इत्येकमेव कुर्यात् ।
चुरादिभ्यो णिच् । ३. ४. १७ ॥
णितश्चुरादयः - तेभ्यो धातुभ्यः स्वार्थे णिच् प्रत्ययो भवति । चोरयति, नाटयति, पदयते, - णकारो वृद्धयर्थः । णिग्रहणेषु सामान्यग्रहणार्थश्च । चकारः सामान्यग्रहणाविद्यातार्थः । चुरण्, पृण्, घृणु, श्वल्कवत्कण्, नक्कधक्कण्, चक्कचुक्कण्, टकुण्, अर्कण, पिव्वण्, पचण्, म्लेच्छण्, ऊर्जण्, तुजपिजुण्, क्षजुण्, पूजण, गजमार्जण, तिजण, वजव्रजण्, रुजण्, नटण्, चटचटचटछुटुन्, कुट्टण, पुट्टचट्टपुट्टण्, पुटमुटण, अट्टस्मि