________________
सूत्र ८७४-८८५ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
सर्तेरड् ॥ ८७८॥ सृ गतौ, इत्यस्मादड्प्रत्ययो भवति । सरड्वृक्षविशेषः, मेघः, उष्ट्रजातिश्च ।८७८। ईडेरविड् ह्रस्वश्च ॥ ८७६ ॥
ईडिक् स्तुती, इत्यस्माद् अविड्प्रत्ययो भवति, ह्रस्वश्चास्य भवति । इडविट्विश्रवाः ।। ८७९॥
किपि म्लेच्छश्च वा ॥ ८८०॥
म्लेच्छरीडेश्च क्विपि प्रत्यये वा ह्रस्वो भवति । अत एव वचनात् क्विप् च । म्लेच्छ अव्यक्ते शब्दे, म्लेट् म्लिट्-उभयं म्लेच्छजातिः। इट, ईट्-स्वामी, मेदिनी च॥८८०॥
तृपेः कत् ।। ८८१॥
तृपोच प्रीती, इत्यस्मात् किद् अत्प्रत्ययो भवति । तृपत्- चन्द्रः, समुद्रः, तृणभूमिश्च ॥ १॥
संश्चद्-वेहत-साक्षादादयः॥८८२॥
एते कत्प्रत्ययान्ता निपात्यन्ते । संपूर्वाच्चिनोडित् समो मकारस्यानुस्वारपूर्वः शकारश्च । संश्चत् अध्वर्युः, कुहकश्च । अनुस्वारं नेच्छन्त्येके, संश्चत्-कुहकः । विपूर्वाद्धन्तेडिद्वेश्च गुणः, विहन्ति गर्भमिति वेहत्-गर्भघातिनी अप्रजाः, स्त्री, अनड्वांश्च । संपूर्वादीक्षतेः साक्षाभावश्च साक्षात्-समक्षमित्यर्थः । आदिग्रहणाद् रेहत् , वियत् , पुरीतदादयोऽपि ॥ ८८२॥
पटच्छपदादयोऽनुकरणाः ॥८८३ ॥
पटदित्यादयोऽनुकरणशब्दाः कत्प्रत्ययान्ता निपात्यन्ते । पट गतौ, पटत् छुपत् संस्पर्श उकारस्याकारश्च । छपत् । पत्ल गतौ, पतत् । शुश् हिंसायाम् , शरत् । शल गतो, शलत् । खट काङ्क्षे, खटत् । दहेः प च, दपत् । डिपेः डिपत् खनतेरश्च, खरत् । खादतेः खादत् , सर्व एते कस्यचिद्विशेषस्य श्रुतिप्रत्यासत्त्याऽनुकरणशब्दाः। अनुकरणमपि हि साध्वेव कर्तव्यम् , न यत्किञ्चित् , यथाऽनक्षरमिति शिष्टाः स्मरन्ति ।। ८८३ ।।
द्रहि-वृहि महि-पृषिभ्यः कतः ॥ ८८४ ॥
एभ्यः किद् अतृः प्रत्ययो भवति । द्रुहौच जिघांसायाम् , द्रुहन्-ग्रीष्मः, वह वृद्धौ, वृहन्-प्रवृद्ध, बृहती छन्दः। मह पूजायाम् , महान्-पूजितः, विस्तीर्णश्च । महान्ती,. महान्तः, महती। पृष् सेचने, पृषत्-तन्त्रं, जलबिन्दुः, चित्रवर्णजातिः, दध्युपसिक्तमाज्यं च । पृषती-मृगी। स्थूलपृषतिमालभेत । ऋकारो उचाद्यार्थः ।। ८८४ ॥
गमेडिद् द्वे च ॥ ८८५॥