________________
४६२ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
-८६६-८७७
तोः किक् ॥ ८६६ ॥
तुंक वृत्त्यादौ, इत्यस्मात् किक् प्रत्ययो भवति । ककारः कित् कार्यार्थः, इकार उच्चारणार्थः, तुक-अपत्यम् ।। ८६९ ॥
द्रागादयः ॥ ८७०॥
द्राक् इत्यादयः शब्दाः किक् प्रत्ययान्ता निपात्यन्ते, द्रवतेरा च । द्राक्-शीघ्रम् । एवं सरतेः स्राक् स एवार्थः । इयर्तेरर्वादेशश्च, अर्वाक्-अचिरन्तनम् । आदिग्रहणादन्येपि ।। ८७०॥
स्रोश्चिक ॥ ८७१ ॥
स्र गती, इत्यस्मात् चिक् प्रत्ययो भवति । स क्जुहू-प्रभृति अग्निहोत्रभाण्डम् । स्र चौ । स्र चः । इकार उच्चारणार्थः । ककारः कित्कार्यार्थः ।। ८७१ ।।
तनेड्वच ॥ ८७२॥
तनूयी विस्तारे इत्यस्माद् डिद् वच् प्रत्ययो भवति । त्वक्-शरीरादिवेष्टनम् ॥८७२ ॥
पारेरज् ॥ ८७३ ॥
पारण कर्मसमाप्ती, इत्यस्मादप्रत्ययो भवति । पारक् शाकविशेषः, प्राकारः, सुवर्ण, रत्नं च । पारजौ, पारजः ।। ८७३ ।।
ऋधि-पृथि-भिषिभ्यः कित् ॥ ८७४ ॥
एभ्यः किद् अप्रत्ययो भवति । ऋधौच वृद्धौ, ऋधक्-समीपवाचि अव्ययम् । प्रथिष् प्रख्याने, निर्देशादेव स्वृत् । पृथग् नानार्थेऽव्ययम् । भिष सौत्रः, भिषक्-वैद्यः, भिषजौ, भिषजः ।। ८७४ ।।
भृ-पणिभ्यामिभुर-वणौ च ॥ ८७५॥
भृ-पणिभ्यामिजप्रत्ययो यथासंख्यं भुर वण इत्यादेशौ भवतः । भृग् भरणे, भुरिक्-बाहुः, शब्दः, भूमिः, वायुः, एकाक्षराधिकपादं च ऋक्छन्दः। पणि व्यवहारस्तुत्योः, वणिक-वैदेहिकः ॥८७५ ॥
वशेः कित् ॥ ८७६ ॥
वशक् कान्ती, इत्यस्मात् किद् इज् प्रत्ययों भवति । उशिक्-कान्तः, उशीरम् , अग्निः, गौतमश्च ऋषिः ॥ ८७६ ॥
लङघेरट् नलुक् च ॥ ८७७ ॥
लघुङ गती, इत्यस्माद् अट्प्रत्ययो भवति, नलोपश्चास्य भवति । लघट्-वायुः, लघु च शकटम् ।। ८७ ७॥