________________
४६४ ]
বীজীবিলবিলম্ব
[सूत्र-८८६-८९४
गम्लु गतो, इत्यस्मात् कतृप्रत्ययो डिद् भवति, द्वे चास्य रूपे भवतः । जगत्स्थावरजङ्गमो लोकः, जगती पृथ्वी ।। ८८५ ।।
भातेडवतुः ॥ ८८६॥
भांक् दीप्ती, इत्यस्माद् डिद् अवतुः प्रत्ययो भवति । भवान् । भवन्तौ । भवन्तः । उकारो दीर्घत्वादिकार्यार्थः ।। ८६ ।।
ह-स-रुहि-युषि-तडिभ्य इत् ॥ ८८७॥
एभ्यः इत्प्रत्ययो भवति । हग हरणे, हरित्-हरितो वर्णः, ककुप् , वायुः, मृगजातिः, अश्वः, सूर्यश्च । सृ गतौ, सरित्-नदी। रुहं जन्मनि, रोहित्-वीरुत्प्रकारः, मत्स्यः, सूर्यः, अग्निः, मृगः, वर्णश्च । युषः सौत्रः, योषति-गच्छति पुरुषमिति योषित स्त्री । तडण् आघाते, तडित्-विद्युत् ।। ८८७ ।।
उदकाच्छ्वेर्डिद ॥८८८ ॥
उदकपूर्वात्-ट्वोश्वि गति-वृद्धयोः, इत्यस्माद् डिद् इत्प्रत्ययो भवति । उदकेन श्वयति उदश्वित्-तक्रम् । 'नाम्न्युत्तरपदस्य च' इति उदकस्य उदभावः ।। ८८८॥
म्र उत् ॥ ८८६ ॥
मृत् प्राणत्यागे, इत्यस्माद् उत् प्रत्ययो भवति । मरुत् वायुः, देवः, गिरिशिखरं च ॥८८६ ॥
ग्रो मादिर्वा ॥८६॥
गत् निगरणे, इत्यस्माद् उत् प्रत्ययो भवति, स च मकारादिर्वा भवति । गर्मुतगरुडः, आदित्यः, मधुमक्षिका, तक्षा, तृणं, सुवर्ण च । गरुत्-बाहः, मजगरः, मरकतमणिः, देगः, तेजसां वर्तिश्च ।।.८६०॥ .
. शकेऋत् ॥ १॥ शक्लृट् शक्ती, इत्यस्माद् ऋत्प्रत्ययो भवति । शकृत्-पुरीषम् ।। ८६१ ॥ यजेः क च ॥ १२ ॥
यजी देवपूजादौ, इत्यस्माद् ऋत् प्रत्ययो भवति, कश्चान्तादेशो भवति । यकृत्अन्त्रम् ॥ ८९२ ॥
पातेः कृथ् ॥ ८६३॥ पांक रक्षणे, इत्यस्मात् किद् ऋथ् प्रत्ययो भवति । पृथो नाम क्षत्रियाः । ८९३ । शु-द-भसेर ॥ ८६४॥ एभ्योऽद्प्रत्ययो भवति । शृश् हिंसायाम् , शरद-ऋतुः। दृ भये, वस्तू-जनपद