________________
सूत्र-६६१-६७० ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[४३७
गृधेर्गभ च ॥ ६६१॥
गृधूच् अभिकाङ्क्षायाम् , इत्यस्माद् अस्तिक् प्रत्ययो भवति, गभ् चास्यादेशो भवति । गभस्ति:-रश्मिः ॥ ६६१॥
वस्यर्तिभ्यामातिः ॥ ६६२ ॥
आभ्याम् आतिः प्रत्ययो भवति । वसं निवासे, वसातयः-जनपदः । ऋक् गतौ, अरातिः-रिपुः ।। ६६२ ॥
अभेर्यामाभ्याम् ।। ६६३ ॥
अभिपूर्वाभ्यामाभ्याम् आतिः प्रत्ययो भवति । यांक प्रापणे, मांक माने, अभियातिः, अभिमातिश्च-शत्रुः ।। ६६३ ।।
यजो य च ॥६६४॥
यजी देवपूजादौ, इत्यस्माद् आतिः प्रत्ययो भवत्यस्य च यकारोऽन्तादेशो भवति । ययाति:-राजा ।। ६६४ ॥
वद्यवि-च्छदि-भूभ्योऽन्तिः ॥ ६६५॥
एभ्योऽन्तिः प्रत्ययो भवति । वद वक्तायां वाचि, वदन्तिः-कथा । अव रक्षणादिषु, अवन्तिः-राजा । अवन्तयः-जनपदः । छदण अपवारणे, युजादिविकल्पितणिजन्तत्वादण्यन्तः, छदन्तिः-गृहाच्छादनद्रव्यम् , भू सत्तायाम् , भवन्ति:-कालः, लोकस्थितिश्च ।५६५।
शकेरुन्तिः ॥ ६६६ ॥ शक्लृट् शक्ती, इत्यस्माद् उन्तिः प्रत्ययो भवति । शकुन्तिः-पक्षी ।। ६६६ ॥ नमो दागो डितिः ॥ ६६७ ।।
नपूर्वात् डुदांग्क दाने, इत्यस्माद् डिद् इतिः प्रत्ययो भवति । अदितिः-देवमाता ॥ ६६७॥
देङः ॥ ६६८॥ दे रक्षणे, इत्यस्माद् डिद् इतिः प्रत्ययो भवति । दितिः-असुरमाता ॥ ६६८ ॥ वीसज्यिसिभ्यस्थिक् ॥ ६६६ ॥
एभ्यः थिक् प्रत्ययो भवति । वीक् प्रजनादिषु, वीथिः-मार्गः । षनं सङगे, सक्थि:-ऊरुः, शकटाङ्गच । असूच क्षेपणे, अस्थि-पञ्चमो धातुः ।। ६६९ ॥
सारेरथिः ॥ ६७० ॥ सृगतो, इत्यस्माद् ण्यन्तादथिः प्रत्ययो भवति । सारथि:-यन्ता ।। ६७० ।।