________________
४३८ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[सूत्र-६७१-६८०
निपजेर्षित् ॥ ६७१ ॥
निपूर्वात् षजं सङगे, इत्यस्माद् घिद् अथिः प्रत्ययो भवति । निषङ्गथिः-रुद्रः, धनुर्धरश्च । घित्करणं गत्वार्थम् ।। ६७१ ।।
उदर्ते र्णिद् वा ॥ ६७२ ॥
उत्पूर्वाद् ऋक् गतौ, इत्यस्माद् अथि: प्रत्ययो भवति, स च णिद्वा भवति । उदारथिः-विष्णुः, उदरथिः-विप्रः, काष्ठं, समुद्रः, अनड्वांश्च ।। ६७२ ।।
अतेरिथिः ॥ ६७३॥
अत सातत्यगमने, इत्यस्माद् इथिः प्रत्ययो भवति । अतिथिः-पात्रतमः, भिक्षावृत्तिः ॥ ६७३ ।।
तनेर्डित् ॥ ६७४ ।। तनूयी विस्तारे, इत्यस्माद् डिद् इथिः प्रत्ययो भवति । तिथिः-प्रतिपदादिः ।६७४। उषेरधिः ॥ ६७५ ॥ उषू दाहे, इत्यस्माद् अधिः प्रत्ययो भवति । औषधिः-उद्भिद्विशेषः ।। ६७५ ।। विदो रधिक् ॥ ६७६ ॥ विदक् ज्ञाने, इत्यस्मात् किद् रधिःप्रत्ययो भवति । विद्रधिः-व्याधिविशेषः ।६७६। वी-यु-सु-वह्यगिभ्यो निः ॥ ६७७ ॥
एभ्यो निः प्रत्ययो भवति । वींक प्रजनादौ, वेनिः-व्याधिः, नदी च । युक् मिश्रणे, योनिः प्रजननमङ्गम् , उत्पत्तिस्थानं च । धुंन्ट् अभिषवे, सोनिः-सवनम् । वहीं प्रापणे, वह्निः-पावकः, बलीवर्दश्च । अग कुटिलायां गतौ, अग्नि:-पावकः ।। ६७७ ।।
धूशाशीडो ह्रस्वश्च ।। ६७८ ॥
एभ्यो निः प्रत्ययो भवति, ह्रस्वश्चैषां भवति । धूम्श् कम्पने, धुनिः-नदी । शोंच तक्षणे, शनिः-सौरिः । शीङक स्वप्ने, शिनिः-यादवः, वर्णश्च ।। ६७८ ।।
लू-धू-प्रच्छिभ्यः कित् ॥ ६७६ ॥
एभ्यः किद् निः प्रत्ययो भवति । लुग्श् छेदने, लूनिः-लवनः । धूग्श् कम्पने, धूनिःवायुः । प्रच्छंत् ज्ञोप्सायाम् , पृश्निः-वर्णः, अल्पतनुः, किरणः, वर्गश्च ।। ६७९ ।।
सदि-वृत्यमि-धम्यश्यटि-कट्यवेरनिः ॥ ६८० ॥
एभ्योऽनिः प्रत्ययो भवति । षद्लु विशरणादौ, सदनिः-जलम् । वृतूङ वर्तने, वर्तनिः-पन्थाः, देशनाम च । अम गतौ, अमनिः-अग्निः । धमः सौत्रः, धमनि:-मन्या, रसवहा च शिरा । अशौटि व्याप्तौ, अशनिः-इन्द्रायुधम् । अट गतौ । अटनिः-चापकोटिः । कटे वर्षावरणयोः, कटनिः-शैलमेखला । अव रक्षणादौ. अवनि:-भः ।। ६८०॥