________________
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-६५३-६६०
आभ्यां कित् तिः प्रत्ययो भवति नकारश्चान्तो भवति । कुङ शब्दे, कुन्तिः-राजा, कुन्तयः-जनपदः । चिंग्ट् चयने, चिन्तिः- राजा ।। ६५२ ।।
खन्यमि-रमि-बहि-वस्यतॆरतिः ॥ ६५३ ॥
एभ्योऽतिः प्रत्ययो भवति । खल संचये च, खलति:-खल्वाटः। अम् गती, अमतिः-चातकः, छागः, प्रावृट् , मार्गः, व्याधिः, गतिश्च । रमि क्रीडायाम् , रमतिःक्रीडा, कामः, स्वर्गः, स्वभावश्च । वहीं प्रापणे, वहति:- गौः, वायुः, अमात्यः, अपत्यं, कुटुम्बं च । वसं निवासे, वसतिः-निवासः, ग्रामसंनिवेशश्च । ऋक् गतौ, अरतिः-वायुः, सरणम् , असुखं क्रोधः, वर्म च ।। ६५३ ।।
हन्तेरंह च ॥ ६५४॥
हनक हिंसागत्योः, इत्यस्मादतिः प्रत्ययो भवत्यस्य च अंह. , इत्यादेशो भवति । अंहतिः-व्याधिः, पन्थाः, कालः, रथश्च ।। ६५४ ।।
वृगो व्रत् च ॥ ६५५ ॥
वृन्ट् वरणे, इत्यस्माद् अतिः प्रत्ययो भवत्यस्य च व्रत् इत्यादेशो भवति । व्रततिः-वल्ली ।। ६५५ ।।
अञ्चेः क च वा ॥ ६५६ ॥
अञ्चू गतो चेत्यस्माद् अतिः प्रत्ययो भवत्यस्य च क् इत्यन्तादेशो वा भवति । अङ्कतिः-वायुः, अग्निः, प्रजापतिश्च । अञ्चतिः-अग्निः ॥ ६५६ ।।
वातेणिद्वा॥ ६५७॥
वांक् गतिगन्धनयोः, इत्यस्माद् अतिः प्रत्ययो भवति, स च गिद् वा भवति । वायतिः-वातः, वाति:-गन्धमिश्रपवनः ।। ६५७ ॥
योः कित् ॥ ६५८ ॥ युक् मिश्रणे, इत्यस्माद् अतिः प्रत्ययः किद् भवति । युवतिः तरुणी॥ ६५८ ॥ पातेर्वा ॥ ६५९ ॥
पांक रक्षणे, इत्यस्माद् अतिः प्रत्ययः स च किद्वा भवति । पतिः-भर्ता, पातिःभर्ता, रक्षिता, प्रभुश्च ।। ६५९ ॥
अगि-विलि-पुलि-क्षिपेरस्तिक ।। ६६० ॥
एभ्यः किद् अस्तिः प्रत्ययो भवति । अग कुटिलायां गतो, अगस्तिः। विलत वरणे, विलस्तिः । पुल महत्त्वे, पुलस्तिः। क्षिपीत् प्रेरणे, क्षिपस्तिः। एते लौकिका ऋषयः । अगस्तिः -वृक्षजातिश्च ।। ६६० ।।