________________
सूत्र-६१६-६१६ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[४३१
उभत् पूरणे, इत्यस्माद् इ: प्रत्ययो भवत्यस्य च द्व त्र इत्यादेशौ, भवतः । द्वौ द्वितीयः, द्विमुनि व्याकरणस्य । त्रयः तृतीयः, त्रिमुनि व्याकरणस्य ॥ ६१५ ।।
नी-वी-प्रहृभ्यो डित् ।। ६१६ ॥
एभ्यो डिद् इः प्रत्ययो भवति । णींग प्रापणे, निवसति । वींक प्रजनादौ, वि:तन्तुवायः, पक्षी, उपसर्गश्च, यथा विभवति । हृग् हरणे, प्रपूर्वः, प्रहिः-कूपः, उदपानं च ।। ६१६ ।।
वौ रिचेः स्वरान्नोऽन्तश्च ॥ ६१७ ॥
वावुपसर्गे सति रिचपी विरेचने, इत्यस्माद् इ. प्रत्ययः स्वरात् परो नोऽन्तश्च भवति । विरिञ्चि:-ब्रह्मा ।। ६१७ ।।
कमि-वमि-जमि-घसि-शलि-फलि-तलि-तडि-वजि-जि-ध्वजि-राजि-पणि-वणिवदि-सदि-हदि-हनि-सहि-वहि-तपि-वपि-भटि-कश्चि-संपतिभ्यो णित् ॥ ६१८ ॥
एभ्यो णिद् इः प्रत्ययो भवति । कमूङ कान्तौ, कामिः-वसुकः, कामी च । टुवमू उगिरणे, वामिः-स्त्री । जमू अदने, जामिः-भगिनी, तृणं, जनपदश्चकः । घस्लु अदने, घासिः-संग्रामः, गर्तः, अग्निः, बहुभुक् च शल गतौ, शालिः-वीहिराजः। फल निष्पत्ती, फालि:-दलम् । तलण् प्रतिष्ठायाम् , तालिः-वृक्षजातिः। तडण् आघाते. ताडिः- स एव । वज व्रज ध्वज गतौ, वाजिः-अश्वः. पुङ्खावसानं च । वाजिः-पद्धतिः. पिटकजातिश्च । ध्वाजिः-पताका, अश्वश्च । राजग दीप्तौ, राजिः-पङक्तिः, लेखा च । पणि व्यवहारस्तुत्यो, पाणिः-करः । वण शब्दे, वाणिः-वाक् , झ्याम् वाणी । वद वक्तायां वाचि, वादि: वाग्मी, वीणा च । षद्लु विशरणगत्यवसादनेषु, सादि:-अश्वारोहः, सारथिश्च । हदि पुरीषोत्सर्गे, हादिः लूता। हनं हिंसागत्योः, घातिः-प्रहरणम् । केचित्तु हानिः- अर्थनाशः, उच्छित्तिश्चेति उदाहरन्ति तत्र बाहुलकात् 'ञ्णिति घात्' इति घाद् न भवति । बाहुलकादेव णित्त्वविकल्पे, हनिः-आयधम् । षहि मर्षणे, साहिः-शैलः। वहीं प्रापणे, वाहिः-अनडवान् । तपं संतापे, तापिः-दानवः । डुवपी बीजसंताने वापिः-पुष्पकरिणी । भट भृतौ. भाटि:सुरतमूल्यम् । कचुङ दीप्तौ काञ्चिः -मेखला, पुरी च । णित्करणादनुपान्त्यस्यापि वृद्धिः । पत्लु गतौ, सपूर्वः संपाति:-पक्षिराजः ।। ६१८॥
कृ-श-कुटि-ग्रहि-खन्यणि-कष्यलि-पलि-चरि-वसि-गण्डिभ्यो वा ॥ ६१९ ॥
एभ्य इः प्रत्ययः स च णिद्वा भवति । डुकृग करणे, कारि:-शिल्पी, करिः-हस्ती, विष्णुश्च । शश् हिंसायाम् , शारि.-छूतोपकरणम् , हस्तिपर्याणम् , शारिका च । शरिःहिंसा, शूलश्च । कुटत् कौटिल्ये, कोटि:-अस्रिः, अग्रभाग , अष्टमं वाङ्कस्थानं च, कुटि:गृहं, शरीराङ्ग च । ग्रहोण् उपादाने, ग्राहिः-पतिः, ग्रहिः-वेणुः । खनूग अवदारणे, खानिः, खनिश्च, निधिः, आकरः, तडागं च । अण शब्दे, आणिः, अणिश्च-द्वारकीलिका। कष हिंसायाम् , काषिः-कर्षक: । कषि:-निकषोपलः, काष्ठम् , अश्वकर्णः, खनित्रं च । अली