________________
४३२]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[सूत्र-६२०-६२७
भूषणादौ, आलि:-पङ क्तिः, सखी च, अलि:-भ्रमरः । पल गतौ, पालि:-जलसेतुः, कर्णपर्यन्तश्च, पलिः-संस्त्यायः । चर भक्षणे च, चारि:-पशूनां भक्ष्यम् । चरि:-प्राकारशिखरम् , विषयः, वायुः, पशुः, केशोर्णा च । वसं निवासे, वासिः-तक्षोपकरणम् , वसिःशय्या, अग्निः, गृह, रात्रिश्च । गडु वदनैकदेशे, गण्डि:-गण्डिका । णित्त्वपक्षे तु अनुपान्त्यस्यापि वृद्धौ गाण्डि:-धनुष्पर्व ॥ ६१६ ।।
पादाचात्यजिभ्याम् ॥ ६२० ॥
पादशब्दपूर्वाभ्यां केवलाभ्यां चाऽत्य जिभ्यां णिद् इः प्रत्ययो भवति । अत सातत्यगमने, अज क्षेपणे च । पादाभ्यामतत्यजति वा पदातिः, पदाजिः । 'पदः पादस्याज्यातिगोपहते' इति पदभावः । उभावपि पत्तिवाचिनौ। आति:-पक्षी, सुपूर्वात् स्वातिः-वायव्यनक्षत्रम् । आजि:-संग्रामः-स्पर्धाऽवधिश्च ।। ६२० ॥
नहेम् च ॥ ६२१॥ ___णहीच बन्धने, इत्यास्माण्णिद् इ: प्रत्ययो भवति । भकारश्चान्तादेशो भवति । नाभिः-अन्त्यकुलकरः, चक्रमध्यं, शरीरावयवश्च ।। ६२१ ।। . अशो रश्चादिः।। ६२२ ॥
अशौटि व्याप्तौ इत्यस्माण्णिद् इः प्रत्ययो भवति, रेफश्च धातोरादिर्भवति । राशि:-समूहः, नक्षत्रपादनवकरूपश्च मेषादिः ॥ ६२२ ।।
कायः किरिच वा ॥ ६२३ ॥
के शब्दे, इत्यस्मात् किः प्रत्ययो भवति । इकारश्चान्तादेशो वा भवति । किकि:पक्षी, विद्वांश्च । काकि:-स्वरदोषः ।। ६२३ ।।
वर्द्धरकिः ॥ ६२४ ॥ वर्धण् छेदन-पूरणयोः, इत्यस्माद्ः अकिः प्रत्ययो भवति । वर्धकिः-तक्षा ॥६२४॥ सनेखिः ॥ ६२५ ॥
षणूयी दाने, इत्यस्माद् डिद् अखिः प्रत्ययो भवति । सखा-मित्रम् , सखायौ, सखायः ।। ६२५॥
कोर्डिखिः ॥ ६२६॥ कुंक शब्दे, इत्यस्माद् डिद् इखिः प्रत्ययो भवति । किखिः-लोमसिका ।। ६२६ ।। मृ-श्चि-कण्यणि-दध्यविभ्यः ईचिः ॥ ६२७ ॥
एभ्य ईचि: प्रत्ययो भवति । मृत् प्राणत्यागे, मरीचिः-मुनिः, मयूखश्च । ट्वोश्वि गति-वृद्धयोः, श्वयीचिः-चन्द्रः, श्वयथुश्च । कण अण शब्दे, कणीचिः-प्राणी, लता, चक्षुः,