________________
४३० ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-६१०-६१५
त्विषिः-दीप्तिः, विषिमान , राजवर्चस्त्री च । कृषीत् विलेखने, कृषिः कर्षणम् , कर्षणभूमिश्च । ऋषत् , गतौ, ऋषिः-मुनिः, वेदश्च । कुषश् निष्कर्षे, कुषिः-शुषिरम् । शुषंच् शोषणे, शुषिः छिद्रम् , शोषणं च । हृषू अलोके हृषि:-अलोकवादो, दीप्तिः, तुष्टिश्च । ष्णुहौच उगिरणे, स्नुहिः-वृक्षः । कृत् विक्षेपे, किरिः-सूकरः, मूषिकः, गन्धर्वः गर्तश्च । गत् निगरणे, गिरिः-नगः, कन्दुकश्च । शृश् हिंसायाम् , शिरिः-हिंस्रः, खड्गः, शोकः, पाषाणश्च । पृश् पालनपूरणयोः, पुरि.-नगरं, राजा, पूरयिता च । पूङ, पवने, पुविःवातः।। ६०९ ।।
विदि-वृतेर्वा ॥ ६१०॥
आभ्याम् इः प्रत्ययो भवति, स च किद्वा । विदक् ज्ञाने, विदि: शिल्पी, वेदि:इज्यादिस्थानम् । वृतूक वतने, वृति:-कण्टकशाखावरणम् । निर्वृतिः-सुखम् , वतिः-द्रव्यम्, दीपाङ्गच ।। ६१० ॥
त-भ्रम्यद्यापि-दम्भिभ्यस्तित्तिरभृमाधाप-देभाश्च ।। ६११ ॥
एभ्यः किद् इ: प्रत्ययो भवति । एषां च यथासंख्यं तित्तिर-भृम-अध अप-देभ इत्यादेशा भवन्ति तृ प्लवनतरणयोः, तित्तिरिः-पक्षिजातिः, प्रवक्ता च वेदशाखायाः । भ्रमू चलने, भूमिः-वायु, हस्ती, जलं च । बाहुलकाद् भृमादेशाभावे, भ्रमिः-भ्रमः । अदं प्सांक भक्षणे, अधि-उपरिभावे, अध्यागच्छति । आपलुट् व्याप्ती, अपि समुच्चयादौ, प्लक्षोऽपिन्यग्रोधोऽपि । दम्भूट् दम्भे, देभिः-शरासनम् ।। ६११ ॥
मने-रुदेतौ चास्य वा ।। ६१२ ॥
मनिच् ज्ञाने, इत्यस्माद् इः प्रत्ययो भवत्यकारस्य च ऊकारकारी वा भवतः । मुनिः ज्ञानवान् । मेनिः-संकल्पः । मनिः-धूमवतिः ।। ६१२ ।।
क्रमि-तमि-स्तम्भरिच नमेस्तु वा ॥ ६१३ ॥ ..
एभ्यः किद् इ: प्रत्ययो भवत्यकारस्य चेकारो भवति । नमेः पुनरकारस्येकारो विकल्पेन । क्रमू पादविक्षेपे, क्रिमि:-क्षुद्रजन्तुः । तमूच काङक्षायाम् , तिमिः-महामत्स्यः । स्तम्भिः सौत्रः, स्तिभिः-केतकादिसूची, हृदयं, समुद्रश्च । णमं प्रह्वत्वे, निमि:-राजा, नमिः-विद्याधराणामाद्यः तीर्थकरश्च ।। ६१३ ॥
अम्भि-कुण्ठि-कम्प्यहिभ्यो नलुक् च ॥ ६१४ ॥
एभ्य इ. प्रत्ययो नकारस्य च लुग् भवति । अभूङ शब्दे अभि आभिमुख्येऽव्ययम् , अभ्यग्नि शलभाः पतन्ति । कुछ आलस्ये च, कुठिः-वृक्षः, पापं, वृषलः, देहः, गेहं, कुठारश्च । कपुङ चलने, कपिः, अग्निः, वानरश्च । अहुङ, गतौ, अहिः-सर्पः, वृत्रः वप्रश्च ।। ६१४ ॥
उभेत्रौ च ॥ ६१५॥