________________
सूत्र-५६१-५६७ ]
__ स्वोपज्ञोणादिगणसूत्रविवरणम्
[ ४२३
अङ गूषः-शकुनिजातिः, हस्ती, बाणः, वेगश्च । मगु गतौ, मङ गूषः-जलचरशकुनिः। गडु वदनैकदेशे, गण्डूष:-द्रवकवलः । ऋक् गतौ, अरूषः रविः ।। ५६० ।।
कोरदूषाटरूष-कारूप-शैलूषपिञ्जूषादयः ॥ ५६१ ॥
एते ऊषप्रत्ययान्ता निपात्यन्ते । कुरेरदोऽन्तश्च, कोरदूषः-कोद्रवः । अटेराङ पूर्वस्य चारोऽन्तश्च, आटरूष:-वास: । अटनं रूषतीति तु अटरूषः, पृषोदरादित्वात् । कृगो वृद्धिश्च, कारूषाः-जनपदः । शलेरै चातः, शैलूषः-नटः । पिजुण हिंसादौ, पिञ्जूषः-कर्णशष्कुल्याभोगः । आदिशब्दात् प्रत्यूषाभ्यूषादयो भवन्ति ।। ५६१ ।।
कलेमेषः ॥ ५६२ । कलि शब्द-संख्यानयोः, इत्यस्मात् मषः प्रत्ययो भवति । कल्मषं-पापम् ।। ५६२।। कुलेश्च मापक ॥ ५६३ ॥
कुल बन्धु-संस्त्यानयोः, इत्यस्मात् कलेश्च किद् माषः प्रत्ययो भवति । कुल्माषःअर्धस्विन्नमाषादि, कल्माष:-शबलः ।। ५६३ ।।
मा-वा-वद्यमि-कमि हनि-मानि-कष्यशि-पचि-मुचि-यजि-च-तभ्यः सः ५६४१
एभ्यः सः प्रत्ययो भवति । मांक माने, मासः-त्रिंशदात्रः । वाक् गति गन्धनयोः, वास:-आटरूषकः । वद व्यक्तायां वाचि, वत्सः-तर्णकः ऋषिः, प्रियस्य च पुत्रस्याख्यानम् । अम गतौ, अंसः-भुजशिखरम् । कमूङ कान्ती, कंस:-लोहजाति:, विष्णोररातिः, हिरण्यमानं च । हनंक हिंसा-गत्योः, हंसः-श्वेतच्छदः। मानि पूजायाम् , मांस-तृतीयो धातुः । कष हिंसायाम् , कक्षः-तृणम् , गहनारण्यं, शरीरावयवश्च । अशौटि व्याप्तौ, अक्षाःप्रासकाः (पाशकाः), अक्षाणि-इन्द्रियाणि, रथचकाणि च । डुपची पाके, पक्ष:-अर्धमासः, वर्गः, शकुन्यवयवः, सहायः, साध्यं च । मुच्लुतो मोक्षणे, मोक्षः-मुक्तिः । यजी देवपूजादौ, यक्ष:-गुह्यकः । वृगश् वरणे, वर्सः-देशः, समुद्रश्च । तृ प्लवन-तरणयोः, तर्सः-वीतंसः, सूर्यश्च । वर्सतर्सयो हुलकान्न षत्वम् ॥ ५६४ ॥
व्यवाभ्यां तनेरीच वेः ॥ ५६५ ॥
वि अव इत्येताभ्यां परात् तनोतेः स प्रत्ययो भवति । वेरीकारश्चान्तादेशो भवति । वीतंसः-शकुन्यवरोधः । अवतंसः-कर्णपूरः ।। ५६५ ।।
प्लुषेः प्लप च ॥ ५६६ ॥
प्लुषू दाहे, इत्यस्मात् सः प्रत्ययो भवत्यस्य च प्लष् इत्यादेशो भवति । प्लक्षं। नक्षत्र, वृक्षश्च ॥ ५६६ ।।
ऋजि-रिषि-कुषि-कृति-व्रश्च्युन्दि-सृभ्यः कित् ।। ५६७ ॥ एभ्यः कित् सः प्रत्ययो भवति । ऋजि गत्यादौ, ऋक्षं-नक्षत्रम् , ऋक्षः-अच्छ