________________
४२२ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-५५४-५६०
आभ्याम् ईषः प्रत्ययो भवति । कृत् विक्षेपे, करीषः-शुष्कगोमय रजः । तृ प्लवनतरणयोः, तरीषः-समर्थः, स्तम्भः, प्लवश्च ।। ५५३ ।।
ऋजि-श-पभ्यः कित् ॥ ५५४ ॥
एभ्यः किद् ईषः प्रत्ययो भवति । ऋजि गत्यादौ, ऋजीषः-अवस्करः ऋजीषम्धनम् । शृश् हिंसायाम् , शिरीषः-वृक्षः । पृश् पालन-पूरणयोः, पुरीषं शकृत् ।। ५५४ ।।
अमेर्वरादिः॥ ५५॥
अम गतौ, इत्यस्माद् वरादिः ईषः प्रत्ययो भवति। अम्बरीषं- भ्राष्ट्र, व्योम च । अम्बरीषः-आदिनृपः ।। ५५५ ॥
उषेोऽन्तश्च ॥ ५५६ ॥
उषू दाहे, इत्यस्माद् ईषः प्रत्ययो भवति, णकारश्चान्तो भवति । उष्णीषः मुकुट, शिरोवेष्टनं च ।। ५५६ ॥
ऋ-प-नहि-हनि-कलि-चलि-चपि-वपि-कृषि-हयिभ्य उषः ॥ ५५७ ॥ एभ्यः उषः प्रत्ययो भवति । ऋश गतौ, अरुषः-व्रणः, हयः, आदित्यः, वर्णः, रोषश्च । पश् पालन-पूरणयोः, परुषः-कर्कशः । णहींच् बन्धने, नहुषः-पूर्वः राजा । हनक हिंसागत्योः, हनुषः- क्रोधः, राक्षसश्च । कलि शब्द-संख्यानयोः, कलुषम्-अप्रसन्नं, पापं च । चल कम्पने, चलुषः-वायुः । चप सान्त्वने, चपुष:- शकुनिः। डुवपी बीजसंताने, वपुषःवर्णः । कृपौङ सामर्थ्य, कल्पुषः-क्रियानुगुणः । हय क्लान्तौ च, हयुषा-औषधिः ॥५५७।।
वि-दि-पभ्यां कित् ॥ ५५८ ॥
आभ्यो किद् उषः प्रत्ययो भवति । विदक् ज्ञाने, विदुषो-विद्वान् । पशु-पालनपूरणयोः, पुरुषः-पुमान्, आत्मा च ।। ५५८ ।।
अपुष-धनुषादयः॥ ५५ ॥
अपुषादयः शब्दा उषप्रत्ययान्ता निपात्यन्ते । आप्नोतेह्र स्वश्च, अपुषः-अग्निः, सरोगश्च । दधातेर्धन् च, धनुषः-शैलः । आदिग्रहणाल्लसुषादयो भवन्ति ।। ५५९ ।।
खलि-फलि-वृ-पृ-कृ-ज-लम्बि-मञ्जि-पीयि-हन्यङ्गि-मङ्गि-गण्डयतिभ्य ऊषः ।५६०।
एभ्यः ऊषः प्रत्ययो भवति । खल संचये च, खलूषः-म्लेच्छजातिः । फल निष्पत्ती, फलूषः-वीरुत् । वृग्ट वरणे, वरूष:-भाजनम् । पृश् पालन-पूरणयो:-परूषः, वृक्षविशेषः । कत विक्षेपे, करूषा:-जनपदः । जृष्च् जरसि, जरूष:-आदित्यः । लबुङ अवस्र सने च, लम्बूषः-नीरकदम्बः, निचुलश्च । मजि , पीयिश्च सौत्रौ, मञ्जूषा काष्ठकोष्ठः, पीयूषंप्रत्यग्रप्रसवक्षीरविकारः, अमृतं, घृतं च । हनंक हिंसा-गत्योः, हनूषः-राक्षसः । अगु, गतौ