________________
३४ ]
बृहवृत्ति-लघुन्याससवलिते
[पाद-३, सूत्र-८९
घ्नन्तमपरो बाह्य आन्तरो वा प्रयुङ क्ते इति स्थितिः । फलवकर्तरीति-कृषीवलादेः प्रशंसादिकमातपस्य फलम् ।
___ अनेनैवात्मनेपदं भवतीति-न त्वनेनाऽप्राप्तेः कर्मणः कर्तृत्वाभावात् तथा कर्मस्थक्रियेऽप्राप्ति दर्शयति । कया युक्त्या लुनाति केदारं चैत्रः ? स एवं विवक्षते-नाहं लुनामि, लुयते केदारः स्वयमेव । तं स्वयमेव लूयमान: चैत्रः प्रयुङक्ते, लावयति केदारं चत्र:, स एवं विवक्षते नाऽहं लावयामि,-अपि तु लावयते केदारः स्वयमेवेत्यनया प्रक्रिययाऽनेन न प्राप्नोति, अणिक्कर्मणोऽणिग्येव कर्तृतायाः सद्भावात् । एवं भूषयते कन्या इत्यादिष्वपि । एतद्वृत्त्यभिप्रायेण कृतम् । यदा तु लुनाति केदारं चैत्रः तं लुनन्तं मैत्रः प्रयुङक्ते, लावयति केदारं चैत्रेण मैत्र:, स एवं विवक्षते नाहं लावयामि चैत्रेण, लावयते केदारः स्वयमेवेति प्रक्रिया क्रियते तदाऽनेनापि प्राप्नोति अणिक्कर्मणो णिक्कर्तृतायाः सद्भावात् , परं तदापि परत्वादेकघातावित्यनेनैव भवति, एवमन्येष्वपि । अत्र निर्वर्तना भूयोऽपि निर्वर्त्तना ततो निवर्त्तनम् । नन्वारोहयते हस्ती स्वयमेवेत्यस्यां पञ्चम्यावस्थायां प्रयोजकव्यापारेऽविवक्षित निमित्ताभाव इति न्यायात् णिगोऽप्यभावः प्राप्नोति ? नवं, 'णिस्नुयात्मनेपद०' ३-४-९२ इति सूत्रे ण्यन्तानामेव त्रिक्ययोनिषेधात् ।
तत्कथमिति-गत्यर्थानां कर्तृ निष्ठव्यापारत्वेन कर्मस्थक्रियत्वासंभव इति पारायणं, यतो गम्यते ग्रामः स्वयमेवेति न भवति, कर्तृ समवेतत्वात् गमनक्रियायाः । आस्कन्दनक्रिया हि हस्तिपककर्तृ समवेता न हस्तिकर्मयुक्तेति कथं कर्मस्थक्रियता रुहेरिति पराशयः ।
न्यगभवनोपसर्जने इति-अण्यन्तस्य न्यग्भवनं गौणत्वान्न विवक्ष्यते, ण्यन्तस्य तु गौणमपि पार्थक्येन विवक्ष्यत इति पञ्चैवावस्था न षट् ।
अन्तर्भूततृतीयायामिति-अन्तर्भूतन्यग्भवनरूपतृतीयावस्थायामित्यर्थः । तामितियत्तदोनित्याभिसंबन्धात् । यस्यां किमित्याह-कर्मकर्तरि विवक्षिते । निवृत्तप्रेषणा निवृत्तप्रयोजकव्यापारात् । धातोः प्राकृतेऽर्थे न्यग्भवनरूपे णिजुच्यते णिजिति मतान्तरेण, स्वमते तु णिगेव ।
प्रलम्भे गृधि-वञ्चेः॥ ३. ३. ८१ ॥
गधि-वञ्चिभ्यां णिगन्ताम्यां प्रलम्मे-वञ्चने वर्तमानाम्यां कर्तर्यात्मनेपदं भवति । बटु गर्घयते, बटुवञ्चयते, विप्रतारयतीत्यर्थः । प्रलम्भ इति किम् ? श्यानं गर्धयति, प्रलोभयतीत्यर्थः, अहिं वञ्चयति, गमयतीत्यर्थः । रिणग आत्मनेपदविधानं सर्वत्राफलवदर्थम् ॥८६।
न्या० स०-प्रलम्मे०-बटुवश्चयते इति-वचिणो णिजि सिद्धं णिगन्तस्य तु विध्यर्थ चौरादिकादेव णिचि णिगन्तादात्मनेपदमित्येके । णिगन्त एव चाऽयं प्रतारणे वर्त्तते स्वभावात् । श्वानं गर्द्धयतीति-अत्र फलवत्त्वेऽपि नात्मनेपदं, 'अणिगि प्राणि.' ३-३-१०७ इति निषेधात् । अहिं वञ्चयतीति-अकर्मकत्वादिणिगि प्राणीति निषेधः, सकर्मकत्वे तु फलवत्यात्मनेपदं भवत्येव ।