________________
पाद-३, सूत्र-९०-९३ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[३५
लिङ्-लिनोर्चाऽभिभवे चाच्चाऽकर्तर्यपि ॥ ३. ३. १० ॥
लीयति-लिनातिभ्यां णिगन्ताभ्याम ऽभिभवयोः प्रलम्भे चार्थे वर्तमानाभ्यां कर्तर्यात्मनेपदं भवति, अनयोश्चान्तस्याकर्तर्यप्याकारो भवति । जटाभिरालापयते, पररात्मानं पूजयतीत्यर्थः, श्येनो वर्तिकामपलापयते, अभिभवतीत्यर्थः; कस्त्वामुल्लापयते ? वञ्चयते इत्यर्थः । एग्विति किम् ? बालकमुल्लापयति, उत्क्षिपतीत्यर्थः । कथं तस्त्रात्त्वम् ? "लीलिनो" [ ४. २.९ ] इति भविष्यति । अकर्तर्यपीति किम् ? जटाभिरालाप्यते जटिलेन । ङिच्छ्नानिर्देशो यौजादिकनिवृत्त्यर्थः ॥१०॥
__न्या० स०-लोलि०-अर्चा मुख्य एव धातोरर्थः, अत एव उदाहरणे पर्यायो णिगन्तः कथितो यथा पूजयति, अर्चयतीत्यर्थः, अभिभवप्रलम्भौ तु णिगन्त एव धातौ वर्तेतेऽतोऽणिगन्तौ पर्यायावूचाते । यदि तु मुख्यौ स्यातां धातोस्तदानीं तौ प्रयोजकव्यापारेण व्याख्येयाताम् ।
स्मिङः प्रयोक्तुः स्वार्थे । ३. ३. ११ ॥
प्रयोक्तुः सकाशाद् यः स्वार्थः स्मयस्तत्र वर्तमानाण्णिगन्तात स्मयतेः कर्तर्यात्मनेपदं भवति, अस्य चान्तस्याकारोऽकर्तर्यपि भवति । जटिलो विस्मापयते । प्रयोक्तुः स्वार्थे इति किम् ? करणात स्वार्थे मा भूव,-रूपेण विस्माययति । अकर्तर्यपीत्येव ? विस्मापनम् । डिनिर्देशाद् यलुपि न भवति-सेष्माययति ॥ ११ ॥
बिभेतेर्भीष् च ॥ ३. ३. १२ ॥
प्रयोक्तुः सकाशात् स्वार्थे वर्तमानाण्ण्यन्ताद् बिभेते: कर्तर्यात्मनेपदं भवति, अस्य च भीषादेशः, पक्षेऽन्तस्याकारश्चाकर्तर्यपि भवति । मुण्डो भीषयते, मुण्डो भापयते । प्रयोक्तुः स्वार्थे इत्येव ? कुञ्चिकया माययति । अकर्तर्यपीत्येव ? भीषा, मापनम् । तिनिर्देशाद् यङ्लुपि न भवति-मुण्डो बेमाययति ॥॥
मिथ्याकृगोऽभ्यासे ॥ ३. ३. १३ ॥
मिथ्याशब्दयुक्तो यः कृग तस्माण्णिगन्तादम्यासेऽर्थे वर्तमानात कर्तर्यात्मनेपदं भवति । अभ्यासः पुनः पुनः क्रियाभ्यावृत्तिः । पदं मिथ्याकारयते, स्वरादिदोषदुष्टमसकृदुच्चारयतिपाठयतीत्यर्थः । आत्मनेपदेनैव क्रियाभ्यावृत्ते?तितत्वात् आभीक्ष्ण्ये द्विर्वचनं न भवतीति केचित् । मिथ्येति किम् ? पदं साधु कारयति । कृग इति किम् ? पदं मिथ्या वाचयति । अभ्यास इति किम् ? सकृत् पदं मिथ्या कारयति ॥ ३ ॥
न्या० स०-मिथ्या०-मिथ्यायुक्तः कृग् मयूरादित्वात् युक्तशब्दलोपः, यद् वा मिथ्याशब्दात् , तृतीयैकवचने 'लुगात०' २-१-१०७ इत्याल्लोपः 'अव्यय०' ३-२-७ इति टालोपो वा, तदा तु युक्तार्थस्तृतीययैव कथ्यते ।