________________
पाद-३, सूत्र-८८ ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[३३
कन्या, कारयते कटः, गमयते गणः, आरोहयते हस्ती स्वयमेव' इत्यादौ कर्मस्थक्रियत्वात् "एकधातौ कर्मक्रिययैकाकर्मक्रिये" [ ३. ४. ४६ ] इत्यनेनैवात्मनेपदं भवति । '
नन्वारोहयते हस्ती स्वयमेवेत्यस्य प्रास्कन्दयते' इति किलार्थः, तत् कथं कर्मस्थक्रियता रहेः ? उच्यते-यदा न्यग्भावनार्थोऽयं तथा कर्मस्थकियत्वम. तथाहि-'आरोहन्ति हस्तिनं हस्तिपकाः' इति न्यग्भवनोपसर्जने न्यग्भावने रुहिर्वर्तते, स द्वितीयस्यामवस्थायाम् आरुह्यते हस्ती स्वयमेव' इत्यस्यां कर्मकर्तृ विषयो न्यग्भवनमात्रवृत्तिर्भवति, अथ चतुर्थ्यामन्तभूततृतीयायाम् 'आरुह्यमाणं प्रयुञ्जते' इति हस्तिपकव्यापारप्रधानायां णिगन्तः सन् 'आरोहयन्ति हस्तिनं हस्तिपकाः' इत्यस्यां शुद्धारोहतिवन्यग्भवनोपसर्जने न्यग्भावने वर्तते, पुनयंदा अस्यैव प्रयोजकव्यापाराविवक्षा तदा 'आरोहयते हस्ती स्वयमेव' इत्यस्यां पञ्चम्यामवस्थायाम् 'आरुह्यते हस्ती स्वयमेव' इतिवन्न्यग्भवनलक्षणस्य विशेषस्य हस्तिसमवेतत्वेनोपलम्भात् 'लावयते केदारः' इत्यादाविवकर्मस्थनियत्वमस्त्येवेति न किञ्चिदनुपपन्नम् । तदुक्तम्
"न्यग्भावना न्यग्भवनं, रहौ शुद्ध प्रतीयते । न्यग्भावना न्यग्भवनं, ण्यन्तेऽपि प्रतिपद्यते ।। अवस्थां पञ्चमीमाहुर्ण्यन्ते तां कर्मकर्तरि ।
निवृत्तप्रेषणाद् धातोः प्राकृतेऽर्थे णिगुच्यते ॥२॥” इति ॥ ८ ॥ न्या० स०-प्रणिक्कर्म०-आरोहयते हस्तीति-अत्राऽनुकूलाचरणं पादार्पणशिरोऽधूननादि । आस्कन्दयत इति हस्तिन उपर्यागच्छन्ति तानुपर्यागमयतीत्यर्थः, अत्राप्येतेनात्मनेपदम् । पाययते मधु पायकानिति-'चल्याहारार्थ' ३-३-१०८ इति परस्मैपदे प्राप्ते 'परिमुह' ३-३-९३ इत्यनेन फलवत्यात्मनेपदमित्यत्र त्वऽफलवत्यप्यनेन । प्रारोहयन्ति महामात्रेण हस्तिपका इति-आरोहयति हस्तिपकान् महामात्रस्तमारोहयन्तं हस्तिपकाः प्रयुञ्जते इति वाक्यं, हस्तिपकानारोहयन्तं महामात्रं हस्त्येव प्रयुङक्ते इति वाक्ये द्वितीयणिगि अणिक्कर्मणो हस्तिनः कर्तृत्वेऽपि नात्मनेपदं, प्रत्यासत्तेायात् यदि अनन्तरे णिगि कर्मणः कर्तत्वमत्र त द्वितीये णिगि । लयते केदार इति-नन लयते केदार इत्यादाविव आरोहयते हस्ती हस्तिपकान् इत्यादावपि यदेव पूर्व कर्म तदेव कर्तेति 'एकघातौ' ३-४-८६ इत्यनेन कर्मकर्तयेवात्मनेपदं भविष्यति किमनेन ? सत्यं, अकर्मकक्रियत्वाभावान्न, अत्र कर्मण: प्रयोजकव्यापारात् कर्तृत्वं, एकघातावित्यत्र तु सौकर्यादित्यऽनयोर्भेदः । णिग इति किमिति-तदा णिगि णिग्विषये कर्ता यस्येति व्याख्येयम् । प्रारोहयन्ति हस्तिनमितिअत्रारोहयते हस्तीत्यर्थे विवक्षिते आत्मनेपदं प्राप्तं तत् णिग इति व्यावृत्त्या निषिध्यते । आरुह्यमाणो हस्तीत्यादि-सिञ्चति मूत्रं कर्तृ पृष्ठं कर्मतापन्नं तत् सिञ्चत् हस्ती प्रयुङ क्ते सदृशधातुप्रयोगेऽपीति-यथा ग्लानाय मुद्राः प्रत्यहं दीयमानाः सादृश्यात्त एव मुद्रा दीयन्ते इति व्यवह्रियते तथा ( अत्रापि कर्तृ भेदेन ) भिन्नोऽपि रुहिः सादृश्यादेकीक्रियते ।
कथं हन्ति प्रात्मानमिति-य एव आत्मा अणिक्कर्म स एव णिक्कत्यात्मनेपदं प्राप्नोतीति पराशयः । घातयत्यात्मेति-हन्त्यन्तरात्मानं बाह्य वा चौरसत्कं राजा तमेकं