________________
३२ ]
बृहवृत्ति-लघुन्याससंवलिते
-
[पाद-३, सूत्र-८८
वितपते उत्तपते रविः दीप्यत इत्यर्थः । स्वेऽङ्गे-वितपते, उत्तपते पाणिम् , तापयतीत्यर्थः । व्युद इति किम् ? निष्टपति । स्वेऽङ्गे चेत्येव? वितपति पृथिवीं सविता, संतापयतीत्यर्थः; उत्तपति सुवर्ण सुवर्णकारः, द्रवीकरोतीत्यर्थः । स्व इत्येव ? उत्तपति पृष्ठं चैत्रस्य । अङ्ग इत्येव ? स्वं सुवर्णमुत्तपति । इह 'दीप्यते ज्वलति भासते रोचते' इत्येष्वर्थेषु तपिमकर्मकं स्मरन्ति, यथा-वहति भारमिति प्रापणे वहिं सकर्मक, स्यन्दने त्वकर्मकम्-वहति नदी, स्पन्दत इत्यर्थ ॥ ८७॥
न्या० स०-व्युदस्तपः दीप्यते सामान्येन दीप्तो भवति, ज्वलति ज्वालावान् भवति, भासते उद्भूतरूपो भवति, रोचते किरणवान् भवति ।
अणिकर्मणिकर्तृकाण्णिगोऽस्मृतौ ॥ ३. ३. ८८ ॥ __ "प्रयोक्तृव्यापारे णिग्" [ ३. ४. २० ] इति वक्ष्यते, प्रणिगवस्थायां यत् कर्म तदेव णिगवस्थाया कर्ता यस्य सोऽणिक्कमरिणकर्तृकः, तस्मात्, णिगन्ताद् धातोरस्मृती वर्तमानात् कर्तर्यात्मनेपदं भवति । आरोहन्ति हस्तिनं हस्तिपकाः प्रारोहयते हस्ती हस्तिपकान् . आस्कन्दयत इत्यर्थः, पश्यन्ति राजानं भृत्याः, दर्शयते राजा भृत्यान् मृत्यरिति वा; पिबन्ति मधु पायकाः, पाययते मधु पायकान् । अणिगिति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः, आरोहयति हस्तिपकान् महामात्रः, प्रारोहयन्ति महामात्रेण हस्तिपकाः; प्रथमणिगन्तकर्मणि द्वितोयरिणगन्तकर्तर्यपि मा भूत् । गिरकरणं किम् ? गणयति गणं गोपालकः, गणयते गणो गोपालकम् , इति णिजन्तकर्मणिकर्तृकादपि णिगन्ताव प्रतिषेधो मा भूत् । कर्मेति किम् ? करणादेः कर्तृत्वे मा भूत-पश्यन्ति भृत्याः प्रदीपेन, दर्शयति प्रदीपो भृत्यान् । णिगिति किम् ? यस्याणिगन्तस्यैव कर्म कर्ता भवति, ततो णिगन्तान्मा भूवलुनाति केदारं चैत्रः, लूयते केदारः स्वयमेव, तं प्रयुङ्क्ते-लावयति केदारं चैत्रः । कर्तृ ग्रहणं किम् ? आरोहन्ति हस्तिनं हस्तिपकाः, तानेनमारोहयति महामात्रः। णिग इति किम् ? आरोहन्ति हस्तिनं हस्तिपकाः, तानारोहयते हस्तीत्यणिगवस्थायां मा भूत् । प्रत्यासत्तेश्च यस्यैव धातोरणिगवस्था तस्यैव धातोणिगवस्था गृह्यते न धात्वन्तरस्य, तेनेह न भवतिआरुह्यमाणो हस्ती चेतयति पृष्ठं मूत्रेण । 'हस्तिपकरारुह्यमाणो हस्ती स्थलमारोहयति मनुष्यान्' इत्यत्र तु सदृशधातुप्रयोगेऽपि पूर्वो हस्तिपककर्तृको रुहिः परश्च मनुष्यकर्तृक इति साधनभेदात् क्रियाभेदे धातुभेदः । अस्मृताविति किम् ? स्मरति वनगुल्म कोकिलः, स्मरयत्येनं वनगुल्मः ।
कथं हन्त्यात्मानं, घातयत्यात्मेति, प्रत्र ह्यात्मनोऽणिक्कर्मणो णिक्कर्तृत्वमस्तीति; नवम्-द्वावात्मानौ-शरीरात्माऽन्तरात्मा च, तत्र भेदेनैव लोके नित्यमयं प्रयोगः, हन्त्यात्मानमिति शरीरात्मनोऽन्तरात्मनो वा कर्मत्वम् , घातयत्यात्मानमित्यपि तस्यैव कर्मत्वं न कर्तृत्वमिति । ननु यदि अणिक्कर्मणो णिक्कर्तृतायां णिगन्तादात्मनेपदमिष्यते तहि शुष्यन्त्यातपे वीहयः, शोषयते वोहीनातपः' इत्यादावधिकरणादेः कर्तृतायामात्मनेपदं न प्राप्नोति ? न, फलवत्कर्तृरि भविष्यति । यद्येवमारोहयते हस्ती हस्तिपकानित्यादावपि तथैवास्तु, सत्यम्-किन्तु फलवतः कर्मस्थक्रियाच्चान्यत्रायं विधिः, तथाहि-'लावयते केदारः, भूषयते