________________
पाद-३, सूत्र-८५-८७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः ।
[३१
समः परेभ्यो गमादिभ्यः कर्मण्यसति कर्तर्यात्मनेपदं भवति । संगच्छते, समच्छते, समच्छिष्यते, संपृच्छते, संशृणते, नित्यपरस्मैपदिभिः साहचर्यात् ज्ञानार्थस्यैव विदेग्रहणम्संवित्ते, संस्वरते, प्रीति सामान्यनिर्देशात् भ्वादिरदादिश्च गृह्यते-समृच्छते, समियते, संपश्यते, स्वरत्योस्तिनिर्देशो यङ्लुनिवृत्त्यर्थः । कर्मण्यसतीत्येव ? संगच्छति सुहृदम् ।८४।
न्या० स०-समोगम०-समच्छिष्यते इति-समृच्छे इत्यस्य ऋच्छेरतेश्च रूपसाम्यात् ऋच्छेरभिव्यक्त्यर्थं समृच्छिष्यते इति द्वितोयमुदाहरणम् । सामान्यनिर्देशादितियद्यपि सामान्यनिर्देशात् ऋश् गतावित्यस्यापि क्रयादिकस्य ग्रहणं स्यात् , तथापि साम्यात् ह्रस्व एव गृह्यते परस्परं ह्रस्वत्वेन नियमितत्वात् । यङ्लुपनिवृत्यर्थ इति-तेन स्वरते: संसरिर्वत्ति, संसर्वत्ति, संसरीस्वत्ति अर्तेस्तु रिरीआगमे 'पूर्वस्य' ४-१-३७ इति इयादेशे समरियत्ति, समरियरीति र आगमे समरत्ति इति, अन्येषां यङ लुप्यपि संजंगते, संपरोपृष्टे, संशोश्रुते संवेवित्ते, संदरीदृष्टे इत्यात्मनेपदमेव, ऋच्छेस्त्वसंभवो यङः ।
वेः कृगः शब्दे चानाशे ॥ ३. ३. ८५ ॥
विपूर्वात् करोतेरनाशेऽर्थे वर्तमानात कर्मण्यसति शब्दे च कर्मणि कर्तर्यात्मनेपदं भवति । कर्मण्यसति-विकुर्वते सैन्धवाः, साधु दान्ताः,-शोभनं वल्गन्तीत्यर्थः; मोदनस्य पूर्णाश्छात्रा विकुर्वते,-निष्फलं चेष्टन्त इत्यर्थः । शब्दं कर्मणि-कोष्टा विकुरुते स्वरान् , नानोत्पादयतीत्यर्थ । शब्दे चेति किम् ? विकरोति मृदम् । अनाश इति किम् ? विकरोत्यध्यायं, विकरोति शब्दं विनाशयतीत्यर्थः ।। ८५ ॥
न्या० स०-वे: कृगः-विकुर्वते सैन्धवा इति-ननु विकारहेतौ सति विक्रियन्ते इत्यादौ कथं क्यः ‘णिस्नुध्यात्मने' ३-४-९२ इत्यधिकारे 'भूषार्थ ३-४-९३ इति निषेघात् ? सत्यं, अत्र कर्मणि क्यः कर्ता तु विकार एव ।
आङो यम-हनः स्वेऽङ्गे च ॥ ३. ३. ८६ ॥
आङः पराभ्यां यमि-हनिभ्यां कर्मण्यसति कर्तुः स्वेऽङ्गे च कर्मणि कर्तर्यात्मनेपदं भवति । आयच्छते, आहते। स्वेऽङ्गे आयच्छते पादम् , आहते शिरः। स्वेऽङ्गे चेति किम् ? प्रायच्छति रज्जुम , प्राहन्ति वृषलम् । स्व इति किम् ? आयच्छति पादौ चैत्रस्य, आहन्ति शिरो मैत्रस्य । अङ्ग इति किम् ? स्वामायच्छति रज्जुम् , स्वं पुत्रमाहन्ति । स्वाङ्ग इति समस्तनिर्देशे पारिभाषिकस्वाङ्गप्रतिपत्तिः स्यादित्यसमस्ताभिधानम् ॥६॥
न्या० स०-आडो यम:-पारिभाषिकस्वाङ्गति-ततश्चायच्छति पादौ चैत्रस्येत्यादावप्यात्मनेपदप्रसङ्गः ।
व्युदस्तपः ॥ ३. ३.८७॥ व्युद्भ्यां पराव तपेः कर्मण्यसति, स्वेऽङ्गे च कर्मणि कर्तर्यात्मनेपदं भवति ।