________________
३० ]
बृहवृत्ति-लघुन्याससंवलिते
[पाद-३, सूत्र-८२-८४
मिथो विरुध्येते इति-यथा वाचिक इति निष्पद्यते तथा षडिक इति न सिध्यति, तथाहि 'द्वितीयात्स्वरादूर्ध्वम्' ७-३-४१ इति कृते वाचिक इति न सिध्यति, एकस्वराव लोपेकृते षडिक इति न इति महाभाष्यविचारः विमतिविवक्षायामिति-शब्दपक्षे शब्दशब्दवतोरभेदोपचारेण ।
ज्ञः॥ ३. ३. ८२॥
जानातेः कर्मण्यसति कर्तर्यात्मनेपदं भवति । सर्पिषो जानीते, मधुनो जानीते। कथमत्र जानातिरकर्मकः ? उच्यते, नात्र सपिरादिज्ञेयत्वेन विवक्षितं कि तहि प्रवृत्ती करणत्वेन ? सर्पिषा मधुना वा करणेन भोक्तुप्रवर्तत इत्यर्थः, अत एव “अज्ञाने ज्ञः षष्ठी" [२. २. ८० ] इति षष्ठी; मिथ्याज्ञानार्थो वा जानातिः,-सपिषि रक्तः प्रतिहतो वोदकादिषु सपिष्टया ज्ञानवान् भवतीत्यर्थः, मिथ्याज्ञानं चाज्ञानमित्यज्ञानार्थत्वे पूर्ववदेव षष्ठी; अथवा सपि: संबन्धि ज्ञानं करोतीति विवक्षायां ज्ञानार्थोऽपिजानातिरकर्मकः, तदा तु सम्बन्धे षष्ठी । कर्मण्यसतीत्येव ? तैलं सपिषो जानाति, तैलं सर्पिष्टया जानातीत्यर्थः; स्वरेण पुत्रं जानाति । केचित् तु-ज्ञानोपसर्जनायां प्रवृत्तावेवाकर्मकाज्जानातरात्मनेपदमाहुः, अत एव ते-'संभविष्याव एकस्यामभिजानासि मातरि" 'अभिजानासि मैत्र! कश्मीरेषु वत्स्यामः' इत्यादौ प्रवृत्यर्थाभावादात्मनेपदाभावं मन्यन्ते; "ज्ञास्ये रात्राविति प्राज्ञः" इत्यत्रापि ज्ञात्वा प्रतिष्य इति व्याचक्षते; "जाने कोपपराङ्मुखी" [ अमरुशतके ] इत्यत्र तु "ज्ञोऽनुपसत्" [ ३ ३. ९६ ) इत्यनेनात्मनेपदमिच्छन्तीति ॥ ८२॥
__न्या० स०-ज्ञः-प्रतिहतो वेति-प्रतिपूर्वको हनिषे वर्त्तते अकर्मकश्च, तत: कतरि क्तः, प्रतिहतिरस्यास्ति अभ्राद्ये वा, कर्मकर्त्तरि वा । तदा तु संबन्धे इति-न माषाणामश्नीयादितिवदित्यर्थः । संभविष्याव इति-'अयदि स्मृत्यर्थे' ५-२-९ इत्यनेन भविष्यन्ती स्यावस् । अभिजानासि मातरीति-तन्मते इत्युल्लेखेनेति विवक्षायामऽकर्मकत्वमन्यथा व्यङ्गविकलता स्यात् , स्वमते तु वाक्यार्थस्य कर्मत्वविवक्षायां सकर्मत्वान्नात्मनेपदं, ते हीत्थं व्याख्यान्तिअभिजानासि स्मरसि, केनोल्लेखेन कोपपराङ्गमुखीति, अनेन व्याख्यानेन 'ज्ञः' ३-३-८२ इत्यनेनाप्यात्मनेपदं वाक्यार्थकमणि तु 'ज्ञोऽनुपसर्गात्' ३-३-९६ इत्यनेन ।
उपात् स्थः ।। ३. ३. ८३ ॥
उपपूर्वाद तिष्ठतेः कर्मण्यसति कर्तर्यात्मनेपदं भवति । भोजनकाल उपतिष्ठते, योगे योग उपतिष्ठते, ज्ञानमस्य ज्ञेयेषूपतिष्ठते, संनिधीयत इत्यर्थः । कर्मण्यसतीत्येव ? राजानमुपतिष्ठति ॥ ३ ॥
न्या० स०-उपात्स्थः-संनिधीयत इति-कर्मकर्तरि धीङ च् अनादरे इत्यस्य वा रुपमिदम् ।
समो गमृच्छि-प्रच्छि-श्रु-वित्-स्वरत्यर्ति-दृशः॥ ३. ३.८४ ॥