________________
४१० ]
स्वोपज्ञोणादिगणसूत्रविकरणम्
[ सूत्र-४६६-४७३
मनोज्ञः । तुस शब्दे, तोसलाः जनपदः । कुसच् श्लेषे, कोशला-जनपदः । अनक प्राणने, अनलः अग्निः । द्रम गतौ, द्रमलं-जलम् ॥ ४६५ ।।
नहि-लङ्गेदीषश्च ॥ ४६६ ॥
आभ्याम् अलः प्रत्ययो भवत्यनयोश्च दी| भवति । णहीच बन्धने, नाहलः म्लेच्छ: । लगु गतौ लाङ्गलं-हलम् ।। ४६६ ।।
ऋ-जनेोऽन्तश्च ।। ४६७ ॥
आभ्याम् अलः प्रत्ययो गकारश्चान्तो भवति । ऋक् गतो, अर्गला-परिघः । जनैचि प्रादुर्भावे, जङ्गलं निर्जलो देशः ॥ ४६७ ।।
तृपि-वपि-कुपि-कुशि-कुटि-वृषि-मुसिभ्यः कित् ।। ४६८ ॥
एभ्यः किद् अलः प्रत्ययो भवति । तृपोचप्रीती, तृपला-लता, तृपलं-शुष्कपर्ण, शुष्कतृणं च । डुवपी बीजसंताने, उपल:-पाषाणः। कुपच् कोपे, कुपलःप्रवाल: । कुशच श्लेषणे, कुशल:-मेधावी । कुशलम् आरोग्यम् । कुटत् कौटिल्ये-कुटल.-ऋषिः । वृषू सेचने, वृषलः-दासजातिः । मुसच् खण्डने, मुसलम् अवहननम् ।। ४६८ ।।
कोर्वा ॥ ४६६ ॥
कुंङ शब्दे इत्यस्माद् अलः, स च प्रत्ययो किद्वा भवति । कुवलं-बदरम् , कुवलीक्षुद्रबदरी, कवलः ग्रासः ॥ ४६९ ॥
शमेव च वा ॥ ४७० ॥
शमूच उपशमे, इत्यस्माद् अलः प्रत्ययो भवति मकारस्य बकारो वा भवति । शबल:-कल्माषः, शमल-पुरीषम् , दुरितं च ॥ ४०॥ ..
छोर्डग्गादि ॥ ४७१॥
छोच छेदने, इत्यस्मात् किद् अल: प्रत्ययो भवति । स च डगांदिर्गादिर्वा भवति । छगल:-छागः, छागल:-ऋषिः । छलं-वचनविधातोऽर्थविकल्पोपपत्त्या ।। ४७१ ॥
मृजि-खन्याहनिभ्यो डित् ॥ ४७२ ॥
एभ्यः डिद् अलः प्रत्ययो भवति । मृजौक शुद्धौ मलं बाह्य रजः-अन्तर्दोषश्च । खनग अवदारणे, खलः दुर्जनः, निष्पीडितरसं पिण्याकादि, खलं-सस्यफलग्रहणभूमिः। हनंक हिंसागत्योः, आङपूर्वः, आहल:-विषाणं, नखरश्च ।। ४७२ ।।
स्थो वा ॥ ४७३ ॥
तिष्ठतेः अलः प्रत्ययो भवति, स च डिद्वा भवति । स्थलं प्रदेशविशेषः । स्थालंभाजनम् ॥ ४७३ ॥