________________
सूत्र-४६१-४६५ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[४०९
तनि-त-ला-पात्रादिभ्य उत्रः ॥ ४६१ ॥
एभ्य उत्रः प्रत्ययो भवति । तनुयी विस्तारे, तनूत्रं-कवचम् । त प्लवनतरणयोः, तरुत्रं-प्लवः, घासहारी च । लांक आदाने, लोत्रम्-अपहृतद्रव्यम् । पा पाने, पोत्रं हलसूकरयोमुखम् । श्रेङ पालने, त्रोत्रम्-अभयक्रिया। आदिग्रहणाद वृणोतेः वरुत्रम्-अभिप्रेतमित्यादयः ।। ४६१ ॥
शा-मा-श्या-शक्यम्ब्यमिभ्यो लः ॥ ४६२ ॥ .
एम्यो ल: प्रत्ययो भवति । शोंच तक्षणे, शाला-सभा। मांक माने, माला-स्रक् । श्यैङ गतौ, श्याल:-पत्नीभ्राता । शक्लट शक्ती, शक्ल:-मनोज्ञदर्शनः, मधुरवाक, शक्तश्च । अम्बुङ शब्दे, अम गतौ अम्ब्लः, अम्लश्च-रसः ।। ४६२ ॥
शुक-शी-भूभ्यः कित् ।। ४६३ ॥ . - एभ्यः किद् लः प्रत्ययो भवति । शुक गतो, शुल्कः-सितो वर्णः । शीङक् स्वप्ने, शील-स्वभावः, व्रतं, धर्मः, समाधिश्च । मुङ, बन्धने मूलम्-वृक्षपादावयवः, आदिः, हेतुश्च ।। ४६३ ।।
भिल्लाच्छभल्ल-सौविदल्लादयः ॥ ४६४ ॥ ' : ... भिल्लादयः शब्दाः किद् लप्रत्ययान्ता निपात्यन्ते । भिदेलश्च-भिल्ल:- अन्त्यजातिः । अच्छपूर्वाद् भलेः, अच्छभल्लः ऋक्षः, सुपूर्वाद्विदेरलोऽन्त: सोश्च वृद्धिः । सौविदल्लः कञ्चुकी । आदिग्रहणादल्लपल्लीरल्लादयोऽपि भवन्ति ॥ ४६४ ।। .
- मृदि-कन्दि कुण्डि-मण्डि-मणि-पटि-पाटि-शकि केव-देव कमि-यमि-शलि-कलिपलि-गुध्वश्चि-चश्चि-चपि-वहि-दिहि-कुहि-त-सं-पिशि-तुसि-कुस्यनि-द्रमेरलः ॥४६॥
एभ्य: अलः प्रत्ययो भवति । मृदश् क्षोदे, मदलः-मुरजः । कटु रोदनाह्वानयोः, कन्दलः-प्ररोहः । कुडुङ दाहे, कुण्डलं-कर्णाभरणम् । मडु भूषायाम् ; मण्डलं-देशः, परिवारश्च । मगु गतौ, मङ्गलं शुभम् । पट गतौ, पटलं-छदिः, समूहः, आवपनं, नेत्ररोगश्च । ण्यन्तात् पाटल:-वर्णः । शक्लुट् शक्ती, शकलं-भित्तम् असारं च, केवृङ, सेवने, केवलं परिपूर्ण ज्ञानम् , असहायं च । देवृङ देवने, देवल:-ऋषिः, देवत्रातः, क्रीडनश्च । कमूङ-कान्तौ, कमलं पद्मम् । णिङि, कामलः-नेत्ररोगः । यमू उपरमे, यमलं युग्मम् । शल गती, शललं-सेधाङ्गरुहशकुः । कलि शब्दसंख्यानयोः, कललं-गर्भप्रथमावस्था । पल गतो, पललम्-भृष्ट तिलातसीचूर्णम् । गुंड शब्दे, गवलः महिषः । धूम्श् कम्पने, धवलःश्वेतः । अञ्चू गतौ च, अञ्चलः वस्त्रान्तः । चञ्चू गतौ, चञ्चलः-अस्थिरः । चप सान्त्वने, चपलः स एव । वहीं प्रापणे, वहलं-सान्द्रम् । दिहींक लेपे, देहली-द्वाराधः पट्टः, कूहणि विस्मापने, कोहलः-भरतपुत्रः, बाहुलकाद् गुणः । तृ प्लवनतरणयोः, तरल:-अधीरः, हारमध्यमणिश्च । सृ गतो, सरल:-अकुटिलः, वृक्षविशेषश्च । पिशत् अवयवे, पेशल: