________________
४०८ ]
स्वोपज्ञोणादिगणसूत्र विवरणम्
[ सूत्र- ४५४-४६०
चि-मि-दि-शंसिभ्यः कित् ॥ ४५४ ॥
एभ्यः कित्त्रः प्रत्ययो भवति । चिग्ट् चयने चित्रम् - आश्चर्यम्, आलेख्यं, वर्णश्च । त्रिमिदांच् स्नेहने, मित्रं सुहृत्, अमित्र:- शत्रुः, मित्र:- सूर्यः । शंसू स्तुतौ च, शस्त्र - स्तोत्रम्, आयुधं च ।। ४५४ ।।
पुत्रादयः || ४५५ ॥
पुत्र इत्यादयः शब्दाः त्रप्रत्ययान्ता निपात्यन्ते । पुनाति पवते च पितृपूतिमिति पुत्र:सुतः, यदाहु:- " पूतीति नरकस्याख्या दुःखं च नरकं विदुः ।" पुन्नाम्नो नरकात् त्रायत इति व्युत्पत्तिस्तु संज्ञाशब्दानामनेकधा व्याख्यानं लक्षयति । आदिग्रहणादन्येऽपि ।। ४५५ ।।
.
वृग्नचि पचि वच्यमि-नमि-मि-वषि-वधि-यजि-पति-कडिभ्योऽत्रः ॥ ४५६ ॥
एभ्यः अत्रः प्रत्ययो भवति । वृग्ट् वरणे, वरत्रा - चर्मरज्जुः । णक्ष गतौ नक्षत्रम्अश्विन्यादि । डुपचष् पाके, पचत्रं - रन्धनस्थाली । वचक्-भाषणे, वचत्रं वचनम् । अम गतौ, अमत्रं -भाजनम् । णमं प्रहृत्वे, नमत्रं - कर्मारोपकरणम् । टुवम् उद्गिरणे, वमत्रंप्रक्षेपः । डुवपीं बीजसंताने, वपत्र - क्षेत्रम् । बधि बन्धने, बघत्रम् - आयुधं, वस्त्रं विषं, शूरश्च । यजीं देवपूजादौ, यजत्र:- यज्वा यजत्रम् - अग्निहोत्रम् । पत्लृ गतौ, पतत्रं बर्हवाहनं व्योम च । कडत् मदे, कडत्रं दाराः, जघनं च ।। ४५६ ।।
सोविंदः कित् ॥ ४५७ ॥
सुपूर्वाद् विदः किद् अत्रः प्रत्ययो भवति । सुष्ठु वेत्ति विन्दति विद्यते वा सुविदत्रंकुटुम्बं धनं, मङ्गलं च ।। ४५७ ।।
कृतेः कृन्त च ।। ४५८ ॥
कृतैच् छेदने इत्यस्माद् अत्रः प्रत्ययो भवति । अस्य च कृत्तादेशो भवति । कृन्तत्रः-मशकः । कृन्तत्रं - छेदनं, लाङ्गलाग्रं च ।। ४५८ ।।
बन्धि-वहि-कट्यश्यादिभ्य इत्रः || ४५६ ।
एभ्यः इत्रः प्रत्ययो भवति । बन्धंश् बन्धने, बन्धित्रं - मन्थ । वहीं प्रापणे, वहित्रंवाहनं च । कटे वर्षावरणयो:, कटित्रं लेख्यचर्म । अशौटि व्याप्तौ अशश् भोजने वा । अशित्रं रश्मिः, हविः अग्निः, अन्नपानं च । आदिग्रहणाद् लुनातेः लवित्रम् - कर्मद्रव्यम्, पुनाते :- पवित्रं - मङ्गल्यम् । भटतेः भटित्रं शूले, पक्वमांसम् । कडतेः कडित्रं-कटित्रमेव । अमतेः अमित्रः- रिपुः इत्यादि ।। ४५९ ।।
भू-गु-दि-चरिभ्यो णित् । ४६० ॥
एभ्यो णिद् इत्रः प्रत्ययो भवति । भू सत्तायाम्, भावित्रं त्रैलोक्यं निधानं, भद्रं च । गृत् निगरणे, गारित्रं नभः, अन्नपानम्, आश्चर्यं च । वद व्यक्तायां वाचि, वादित्रम् - आतोद्यम् । चर भक्षणे । चारित्रं वृत्तं स्थित्यभेदश्च ।। ४६० ।।