________________
सूत्र ४७४-४७६ ]
स्वोपज्ञोणादिगणसूत्र विवरणम्
[ ४११
मुरलोरल - विरल- केरल- कपिञ्जल - कजलेजल-कोमल-भृमल- सिंहल - काहल-शूकलपाकल - युगल - भगल- विदल-कुन्तलोत्पलादयः || ४७४ ॥
एते अलप्रत्ययान्ता निपात्यन्ते । मुव्यु व्यर्वलोपः किच्च, मुरला:- जनपदः । उरल:उत्कटः । विपूर्वाद्रमेडिच्च, विरल :- असंहतः । किर: केर च केरला - जनपद: । कम्पेरिञ्जो - ऽन्तो नलोपश्च कपिञ्जलः - गौरतित्तिरिः । कषीषोर्जोऽन्तोजश्च, कज्जलं मषी इज्जल:वृक्षविशेष: । कमेरत ओच्च कोमलं - मृदु । भ्रमेभृंम् च, भृमलः वायुः, कृमिजातिश्च, भृमलं चक्रम् | हिंसेराद्यन्त विपर्ययश्च, सिंहला - जनपदः । कणेर्हो दीर्घश्च, काहलः अव्यक्तवाक्, काहला वाद्यविशेषः । शकेरूच्चास्य, शूकलः - अश्वाधमः । पचेः पाक् च पाकलःहस्तिज्वरः युजेः किद् ग च, युगलं - युग्मम् । भातेर्गोऽन्तो ह्रस्वश्च, भगल:- मुनिः । विन्देलोपश्च विदलं वेणुदलम् । कनेरत उत् तोऽन्तश्च कुन्तला - जनपदः, केशाश्च । उत्पूर्वात् पिबते ह्रस्वश्च, उत्पलं - पद्मम् । आदिग्रहणात् सुवर्चलादयो भवन्ति ।। ४७४ ।।
ऋ-कृ-मृ-वृ-तनि-तमि चपि चपि कपि-कीलि पलि-बलि-- पश्चि-मङ्गि-गण्डि - मण्डिचण्डि तण्डि पिण्डि नन्दि-नदि· शकिभ्य-आलः ॥ ४७५ ।।
एभ्य आल प्रत्ययो भवति ऋक् गतौ अरालं वक्रम्। डुकृांग् करणे करालम् उच्चम् । मृत् प्राणत्यागे. मरालः - हंसः, महांश्च । वृग्ट् वरणे, वरालः वदान्यः । तनूयी विस्तारे, तनालं जलाशयः । तमूच् काङ्क्षायाम् तमालः - वृक्षः, व्यालश्च । चषी भक्षणे, चषालं यूपशिरसि द्रव्यम् । चप सान्त्वने, चपालं- यज्ञद्रव्यम् । कपिः सौत्रः, कपालं घटाद्यवयवः- शिरोऽस्थि च । कील बन्धे, कीलालं मद्यं, जलम् असृक् च । पल गतौ, पलालम् । अकणो व्रीह्यादिः । बल प्राणनधान्यावरोधयोः बलालो वायुः । पचुङ व्यक्तीकरणे पञ्चालः ऋषिः, राजा च पञ्चाला जनपदः मगु गतौ, मङ्गलः- देशः । गडु वदनैकदेशे, गण्डाल:- मत्तहस्ती | मडु भूषायाम् मण्डाल. ऋषि, राजा च । चडुङ, कोपे, चण्डाल:
श्वपचः ।
अकृतज्ञमकार्यज्ञं दीर्घ रोषमनार्जवम् ।
चतुरो विद्धि चण्डालान् जन्मना चेति पञ्चमम् ॥ १ ॥ ॥
तडुङ अघाते, तण्डाल:- क्षुषः । पिडुङ सङ्घाते, पिण्डालः - कन्दजातिः । टुनदु समृद्धी, नन्दालः- राजा । णद अव्यक्ते शब्दे, नन्दालः - नादवान् । शक्लृट् शक्तौ शकालाजनपदः, मूर्खधनी च ।।
कुलि- पिलि विशिविडि-मृणि-कुणि- पी- प्रीभ्यः कित् ॥ ४७६ ॥
एभ्यः किदु आलः प्रत्ययो भवति । कुल बन्धुसंस्त्यानयोः, कुलालः कुम्भकारः । पिलण् क्षेपे, पिलालं श्लिष्टम् । विशंत् प्रवेशने, विशालं विस्तीर्णम् । बिड आक्रोशे, बिडाल:- मार्जारः । लत्वे बिलालः स एव । मृणत् हिंसायाम्, मृणालं - बिसम् । कुणत् शब्दोपकरणयो:, कुणाल :- कृतमालः, कटविशेषश्व, कुणालं नगर, कठिनं च । पीङच पाने, पियालः- वृक्षः, पियालं - शाकं, बोरुच्च । प्रीङ च प्रीतौ, प्रियालः- पियालः ।। ४७६ ।।