________________
४०२]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[सूत्र-४१९-४२४
पटीरं-कामुकम् , स्फिक् च । कडु मदे, कण्डीरं-हरितकम् । शौण्ड गर्वे, शौण्डीर:गर्वितः, सत्त्ववान् , तीक्ष्णश्च । हिसुप हिंसायाम् , हिंसीरः-श्वापदः, हिंस्रश्च ।। ४१८ ।।
घसि-वशि-पुटि-कुरि-कुलिकाभ्यः कित् ॥ ४१६ ।।
एभ्यः किद् ईरः प्रत्ययो भवति । घस्लु अदने, क्षीरं-दुग्धं, मेघश्च । वशक् कान्ती, उशीरं-वीरणीमूलम् । पुटत् संश्लेषणे, पुटीर:-कूर्मः । कुरत् शब्दे, कुरीरं-मैथुनं, वेश्म च, कुरीर:-मालाविशेषः, कम्बलश्च । कुल बन्धुसंस्त्यानयोः, कुलीरः- कर्कटः । के शब्दे, कीरः-शुकः, काश्मीरकश्च ।। ४१६ ।।
कशेर्मोऽन्तश्च ॥ ४२०॥
कश शब्दे इत्यस्मात्तालव्यान्ताद् ईरः प्रत्ययो मश्चान्तो भवति । कश्मीराजनपदः ॥ ४२०॥
वनि-वपिभ्यां णित् ॥ ४२१ ॥
आभ्यां णिद् ईरः प्रत्ययो भवति । वन-भक्तो, वानीर:-वेतसः । डुवपी बीजसंताने वापीर:-मेघः, अमोघनिष्पत्तिः क्षेत्रं च ।। ४२१॥ . जम्बीराभीर-गभीर-गम्भीर-कुम्भीर-भडीर-भण्डीर-डिण्डीर-किर्मीरादयः॥४२२॥
एते ईरप्रत्ययान्ता निपात्यन्ते जनेोऽन्तश्च, जम्बीर:-वृक्षविशेषः । आप्नोतेर्भश्च आभीर:-शूद्रजातिः। गर्भः स्वरान्नस्तु वा गभीरः-अगाधः, अचपलश्च । गम्भीरः स एव । स्कम्भेः सौत्रात् सलोपश्च, कुम्भीरः-जलचरः । भडुङ परिभाषणे, अस्य नलुक च वा, भडीरः, भण्डीरश्च-योद्धवचने । डीडो डित् द्वित्वं पूर्वस्य नोऽन्तश्च, डिण्डीर:-फेनः । किरतेर्मोऽन्तश्च, कीर्मीरः-कबुरः । आदिग्रहणात् तृणीर-नासीर-मन्दीर करवीरादयो भवन्ति ॥ ४२२॥
वाश्यसि-वासि-मसि-मथ्युन्दि-मन्दि-चति-चक्यङ्कि-कवि-चकि-बन्धिभ्य उरः ॥ ४२३ ॥
एम्य उरः प्रत्ययो भवति । वाशिच् शब्दे वाशुरः-शकुनिः, गर्दभश्च, वाशुरारात्रिः । असूच क्षेपणे, असुरः-दानवः । वासण उपसेवायाम् वासुरा, रात्रिः मसैच् परिमाणे, मसुरा-पण्यस्त्री; मसुरं-चर्मासनम् , धान्यविशेषश्च । मथे विलोडने, मथुरा-नगरी । उन्दैप् क्लेदने उन्दुरः-मूषिकः । मदुङ स्तुत्यादौ, मन्दुरा-वाजिशाला। चतेग याचने चतुरः-विदग्धः । चङ्किः सौत्रः, चङ्कति चेष्टते, चङ कुरः-रथः, अनवस्थितश्च । अकुङ लक्षणे, अङ कुरः-प्ररोहः, तरुप्रतानभेदश्च । घञ्युपसर्गस्य बहुलमिति बहुलवचनाद् दीर्घत्वे अङ कुरः। कर्ब गतौ, कर्बुर:-शबलः । चकि तृप्ति-प्रतीघातयोः, चकुरः-दशनः । बन्धंश् बन्धने, बन्धुरः-मनोज्ञः, नम्रश्च ॥ ४२३ ॥
मऊ लुक् वोच्चास्य ॥ ४२४ ॥