________________
३९० ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र -३४९-३५४
कुट्टि वेष्टि- पूरि पिषि-सिचि -गण्यर्पि-वृ-महिभ्य इमः ॥ ३४६ ॥
एभ्यइमः प्रत्ययो भवति । कुट्टण् कुत्सने च, कुट्टिमं संस्कृतभूतलम् । वेष्टि वेष्टने, वेष्टिमं-पुष्पबन्धविशेषः, भक्ष्यविशेषश्च । पूरैचि आप्यायने, पूरिमं मालाबन्ध विशेषः, भक्ष्यविशेषश्च । पिष्लृ प्, संचूर्णने, पेषिमं भक्ष्य विशेषः । षिचींत् क्षरणे, सेचिमं - मालाविशेषः । गणण संख्याने, गणिमं- गणितम् - ऋक् गतौ णौ पौ, अपिमं बालवत्साया दुग्धम् । वृगट् वरणे, वरिमं-तुलोन्मेयम् । मह पूजायाम्, महिमं- पूजनीयम् ॥ ३४६ ।
वयिम - खचिमादयः ॥ ३५० ॥
वयमादयः शब्दा इमप्रत्ययान्ता निपात्यन्ते । वेंग् तन्तुसन्ताने, वयादेशश्च, वयिमं- माल्यं, कंन्दुकः, तन्तुवायदण्डश्च । खनूग् अवदारणे, चश्च, खचिमं - मणिलोहविद्धं, घृतविहीनं च दधि । आदिशब्दादन्येऽपि ।। ३५० ॥
उद्वटि - कुल्य लि-कुथि कुरि- कुटि - कुडि - कुसिभ्यः कुमः ।। ३५१ ।।
उत्पूर्वाद्वटे: कुल्यादिभ्यश्च किदुमः प्रत्ययो भवति । वट वेष्टने, उद्वटुमः - परिक्षेपः । कुल बन्धु संस्त्यानयोः, कुलुमः - उत्सवः । अली भूषणादी, अलुमः -प्रसाधनम्, नापितः, अग्निश्च । कुथच् पूतीभावे, कुथुमः ऋषिः, कुथुमं - मृगाजिनम् । कुरत् शब्दे, कुरुम:कारुः, भाजनं च । कुटत् कौटिल्ये, कुटुमः प्रेष्यः । कुडत् बाल्ये च, कुडुमाभूमिः । कुसच् श्लेषे, कुसुमं - पुष्पम् ।। ३५१ ।।
कुन्दुम-लिन्दुम-कुङ्कुम-विद्रुम-पट्टुमादयः ।। ३५२ ॥
एते कुमप्रत्ययान्ता निपात्यन्ते । कुकि आदाने स्वरान्नो दश्च कुन्दुम : - निचयः, गन्धद्रव्यं च । लींङच् श्लेषणे, लिन्दभावश्च, लिन्दुमः - गन्धद्रव्यम् । कुकेः स्वरान्नोन्तश्च । कुङ कुमं घुसृणम् । विद्लृ ती लाभे, रोन्तश्च विद्रुमः- प्रवाल: । पटेष्टोऽन्तश्च । पट्टुमंनगरम् | आदिग्रहणादन्येऽपि ।। ३५२ ।।
कुथि - गुरूमः ॥ ३५३ ॥
आभ्यामूमः प्रत्ययो भवति । कुथच् पूतिभावे, कोथूमः चरणकृषिः । गुघच् परिवेष्टने, गोधूमः - धान्यविशेषः ।। ३५३ ।।
विहा - विशा - पचिभिद्यादेः केलिमः || ३५४ ||
विपूर्वाभ्याम् ओहांक् त्यागे, शोंच् तक्षणे, इत्येताभ्यां पच्यादिभ्यश्च कि एलिम: प्रत्ययो भवति । विहीयते त्यज्यतेऽशुचि शरीरमस्मिन्निति विहेलिमः स्वर्गः । विश्यति तनूभवति मासि मासि कलाभिर्हीयमान इति विशेलिमः - चन्द्र, स्वर्गश्च । डुपचष् पाके, पचति असावन्नमिति पचेलिमः - अग्निः, आदित्यः, अश्वश्च । भिपी विदारणे, भिदेलिम:तस्करः । आदिशब्दात् शू प्रेक्षणे, दृशेलिमम् अदं प्सांक् भक्षणे, अदेलिमम् । हक् हिंसागत्योः घ्नेलिमम् । डुयाचृग् याच्ञायाम्, याचेलिमम् । पांकू रक्षणे, पेलिमम् । डुग् करणे, केलिमम् इत्यादयो भवन्ति ।। ३५४ ।