SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ सूत्र-३५५-३६२ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [३९१ दो डिमः ॥ ३५५ ॥ दांम् दाने, इत्यस्मात् डिमः प्रत्ययो भवति । दाडिमः दाडिमी वा-वृक्षजातिः।३५५। डिमे कित् ॥ ३५६ ॥ डिमेः सौत्रात् कित् डितः प्रत्ययो भवति । डिण्डिमः-वाद्यविशेषः ॥ ३५६ ।। स्था-छा-मा-सा-सू-मन्यनि-कनि-पसि-पलि-कलि-शलि-शकीय-सहि-बन्धि भ्यो यः॥ ३५७ ॥ एभ्योः यः प्रत्ययो भवति । ष्ठां गतिनिवृत्ती, स्थायः-स्थानम् , स्थाया-भूमिः । दो छोंच छेदने, छाया-तमः, प्रतिरूपम्, कान्तिश्च । मांक माने, माया-छद्म, दिव्यानुभावदर्शनं च । षौंच अन्तकर्मणि, सायं दिनावसानम् । षूत् प्रेरणे, सव्यः-वामः, दक्षिणश्च । मनिच ज्ञाने, मन्या-धमनिः । अनक् प्राणने, अन्यः-परः। कनै दीप्त्यादिषु, कन्या कुमारी षसक स्वप्ने, सस्य-क्षेत्रस्थं गोधूमादि । पल गतौ, पल्य:-कटकुसूलः। कलि शब्दसंख्यानयोः, कल्यः-नीरोगः । पल फल शल गतौ, सल्यमन्तर्गतं लोहादि शक्लृट् शक्ती-शक्यम्असारम् । ईष्यिार्थः, ईय॑ति ईय॑णं वा ईर्ष्या-मात्सर्यम् । षहि मर्षणे, सह्यः-पश्चादर्णवपार्श्वशैलः । बन्धश् बन्धने, वन्ध्या-अप्रसूतिः ।। ३५७ ॥ नजो हलि-पतेः ॥ ३५८ ॥ नपूर्वाभ्यामाभ्यां यः प्रत्ययो भवति । हल विलेखने, अहल्या-गौतमपत्नी । पत्लु गतौ, अपत्यं-पुत्रसंतानः ।। ३५८ ।। सजे च ॥ ३५६ ॥ षजं सङगे इत्यस्माद् यः प्रत्ययो भवति, धकारश्चान्तादेशो भवति । संध्यादिननिशान्तरम् ॥ ३५९ ॥ मृशी-पसि-वस्यमिभ्यस्तादिः ।। ३६० ॥ एभ्यस्तकारादिर्यः प्रत्ययो भवति । मृत् प्राणत्यागे मर्त्यः-मनुष्यः । शीङ क् स्वप्ने, शैत्यः-शकुनिः, संवत्सरः, अजगरश्च । पसि निवासे, सौत्रो दन्त्यान्तः, पस्त्यंगृहम् । वसं निवासे, वस्त्यः-गुरुः । अनक प्राणने, अन्त्यः-निरवसितः, चण्डालादिश्च ॥ ३६० ॥ ___ ऋशि-जनि-पुणि-कृतिभ्यः कित् ।। ३६१ ॥ एभ्यः किद् यः प्रत्ययो भवति । ऋश् गतौ स्तुतौ वा स्वरादिस्तालव्यान्तः, ऋश्य:-मृगजातिः । जनैचि प्रादुर्भावे, जन्यं-संग्रामः। जाया-पत्नी, 'ये नवा' इत्यात्वम् । पुणत् शुभे, पुण्यं सत्कर्म । कृतैत् छेदने, कृन्ततीति कृत्या-दुर्गा ।। ३६१ ॥ कुलेड च वा ॥ ३६२॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy