________________
सूत्र-३४२-३४०]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[३८९
___ आभ्यां मः प्रत्ययो भवति, स च किद्वा भवति । टुक्षुक् शब्दे, क्षुमा-अतसी, मोक्षवस्त्रम् । हिंट् गतिवृद्धयोः, हिम-तुषारः, हेमं-सुवर्णम् ।। ३४१॥
अवेह स्वश्च वा ॥ ३४२॥
अव रक्षणादौ, इत्यस्मात् किद् मः प्रत्ययो भवति ऊटो ह्रस्वश्च वा भवति । उमागौरी, अतसी, कीर्तिश्च । ऊमम्-ऊनम् , आकाशं, नगरम् ।। ३४२ ॥
सेरी च वा ॥ ३४३॥
किंग्ट् बन्धने, इत्यस्मात् किद् मः प्रत्ययो भवति, ईकारश्चान्तादेशो वा भवति । सीमोग्रामगोचरभूमिः, क्षेत्रमर्यादा, हयश्च । सिमः एव, सर्वार्थश्च ॥ ३४३ ।।
भियः षोऽन्तश्च वा ॥ ३४४ ॥
त्रिभीक् भये, इत्यस्मात् किद् मः प्रत्ययो भवति । षकारश्चान्तादेशो वा भवति । बिभेति अस्मादिति भीष्मः-भयानकः । भीम:-स एव ॥ ३४४ ।।
तिजि-युजेर्ग च ।। ३४५ ॥
आभ्यां किद्मः प्रत्ययो भवति, गकारश्चान्तादेशो भवति । तिजि क्षमानिशानयोः, तिग्म-तीक्ष्णं, दीप्तं, तेजश्च । युपी योगे, युग्मं-युगलम् ।। ३४५ ।।
रुक्म-ग्रीष्म-कूर्म-सूर्म-जाल्म-गुल्म-घोम-परि--स्तोम-सूक्ष्मादयः ॥३४६॥
एते किन्मप्रत्ययान्ता निपात्यन्ते । रोचतेः क् च रुक्म-सुवर्णं रूप्यं च । ग्रसेर्गी च, ग्रीष्मः-ऋतुः । कुरते र्दीर्घश्च, कूर्म:-कच्छपः। षूत् प्रेरणे, इत्यस्माद्रोऽन्तश्च भवति । सूर्मी-लोहप्रतिमा, चुल्लिश्च जल धात्ये दीर्धश्च, जाल्मः-निकृष्टः । गुपच् व्याकुलत्वे लश्च, गुल्मः-व्याधिः तरुसमूहः, वनस्पतिः, सेनाङ्ग च, गुल्मम्-आयस्थानम् । जिघ्रते. रोत्वं च, घ्रोम:-यज्ञाङ्गलक्षणः सोमः। परिपूर्वात् स्तोतेः षत्वाभावो गुणश्च, परिस्तोमःयज्ञविशेषः । सूचण् पैशून्ये कत्वं षोऽन्तश्च । सूक्ष्मः-निपुणः, सूक्ष्मम्-अणु । आदिग्रहणात् क्ष्मादयो भवन्ति ॥ ३४६ ॥
सृ-प-प्रथि-चरि-कडि-करमः ॥ ३४७ ॥
एभ्यः अमः प्रत्ययो भवति । सृगतो, सरमादेवशुनी । पृश् पालनपूरणयोः, परमःउत्कृष्टः। प्रथिष् प्रख्याने, प्रथम:-आद्यः । चर भक्षणे, चरमः-पश्चिमः। कडत् मदे, कडमःशालिः । ऋफिडादित्वाल्लत्वे कलमः- स एव । कर्द कुत्सिते शब्दे, कर्दमः-पङ्कः ।।३४७।।
अवेधं च वा ।। ३४८ ॥
अव रक्षणादौ, इत्यस्मादम प्रत्ययो भवति, घश्चान्तादेशो वा भवति । अधमः, अवमश्चहीनः ।। ३०८।।