________________
सूत्र-३१२-३२० ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[३८५
उड् संघाते, इति सौत्रात् उपक्प्रत्ययो भवति । उडुपः-प्लवः । जपादित्वाद् वत्वे उडुवः ॥ ३११ ॥
अशऊपः पश्च ॥ ३१२॥
अशौटि व्याप्ती, इत्यस्मादूपः प्रत्ययः भवति, पश्चान्तादेशो भवति । अपूपः पक्वान्नविशेषः ।। ३१२ ॥
सः षपः ।। ३१३ ॥ सृगतो, इत्यस्मात् षपः प्रत्ययो भवति । सर्षपः-रक्षोध्नद्रव्यम् , शाकं च ।।३१३॥ री-शीभ्यां फः ॥ ३१४ ॥
आभ्यां फः प्रत्ययो भवति । रीङ च श्रवणे, रेफ:-कुत्सितः । शीङक स्वप्ने । शेफः-मेढ़ः ॥३१४॥
कलि-गलेरस्योच्च ॥ ३१५ ॥
आभ्यां फः प्रत्ययो भवत्यस्य चोकारो भवति । कलि शब्दसंख्यानयोः, गल अदने, कुल्फः-जङ्घा घ्रिसन्धिः । गुल्फः-पादोपरिग्रन्थिः ।।३१५॥
शफ-कफ शिफा-शोफादयः ॥ ३१६ ॥
शफादयः शब्दाः फप्रत्ययान्ता निपात्यन्ते । श्यतेः कायतेश्च ह्रस्वश्च । शफःखुरः, प्रियंवदश्च । कफः-श्लेष्मा । श्यतेरित्वमोत्वं च । शिफा-वृक्षजटा। शोफ:-श्वयथुः, खुरश्च । आदिशब्दाद् रिफानफासुनफादयो भवन्ति ।। ३१६ ॥
वलि-नितनिभ्यां वः ॥ ३१७॥
वलि संवरणे, निपूर्वाच्च, तनूयी विस्तारे इत्याभ्यां बः प्रत्ययो भवति । बल्बःवृक्षः । नितम्बः-श्रोणिः, पर्वतैकदेशः, नटश्च ।। ३१७ ।।
शम्यमेर्णिद्वा ॥ ३१८॥
आभ्यां बः प्रत्ययो भवति, स च णिद्वा भवति । शमूच् उपशमे, शम्ब:-वज्रः, कर्षणविशेषः, वेणुदण्डः, तोत्रम् , अरित्रं च । शम्बशाम्बी-जाम्बवतेयौ । अम् गतौ, अम्बामाता । आम्बः-अपह्नवः ॥ ३१८ ॥
शल्यलेरुचातः ॥ ३१६ ॥
आभ्यां बः प्रत्ययो भवत्यकारस्य चोकारो भवति । पल-फल शल गती, शुल्बंताम्रम् । अली भूषणादौ, उल्बं-रजतम् , गर्भवेष्टनम् । शुल्बं-बम्भ्रुः, तरक्षुश्च ।। ३१९ ।।
तुम्ब-स्तम्बादयः ॥ ३२० ॥ तुम्बादयः शब्दा बप्रत्ययान्ता निपात्यन्ते । ताभ्यतेरत उत्वं च । तुम्बम् अलाबु,