________________
३८४ ]
स्वोपज्ञोणादिगणसूत्र विवरणम्
[ सूत्र - ३०४-३११
आभ्यां कित्पः प्रत्ययो भवति, लुक् चान्तस्य भवति । उभत् पूरणे । अव रक्षनादौ । उप, अप च अव्यये ।। ३०३ ।।
दलि-लि-तलि खजि ध्वजि - कचिभ्योऽपः || ३०४ ॥
एभ्यः अपः प्रत्ययो भवति । दल विशरणे, दलपः - प्रहरणम्, रणमुखम्, त्रिदलं, दलविशेषश्च, दलपं व्रणमुखत्राणम् । वलि संवरणे, वलपः- कणिका । तलण् प्रतिष्ठायाम्, तलप:- हस्तप्रहारः । खज मन्थे, खजपः - मन्थः, खजपं दधि, घृतम् उदकं च । ध्वज गतौ, ध्वजप :- ध्वजः । कचि बन्धने, कचपः - शाकपणः, बन्धश्च ।। ३०४ ।।
भुजि-कुति - कृटि - विटि कुणि-कुष्युषिभ्यः कित् ॥ ३०५ ॥
एभ्यः किदपः प्रत्ययो भवति । भुजंप् पालनाभ्यवहारयोः, भुजपः - राजा, यजमानपालनादग्निश्च । कुतिः सौत्रः, कुतपः - छागलोम्नां कम्बलः आस्तरणं, श्राद्धकालश्च । कुटस् कौटिल्ये, कुटप :- प्रस्थचतुर्भाग: नीडं च शकुनीनाम् । विट् शब्दे, बिटप:- शाखा । कुणत् शब्दोपकरणयोः । कुणपः- मृतकं कुषितं, शब्दार्थसारूप्यं च । कुषश् निष्कर्षे, कुषप:विन्ध्यः, संदंशश्च । उषू दाहे, उषपः - दाहः, सूर्यः, वह्निश्च ।। ३०५ ।
शंसेः श इच्चातः ॥ ३०६ ॥
शंसू स्तुतौ च इत्यस्मादपः प्रत्ययो भवति तालव्यः शकारोऽन्तादेशोऽकारस्य च इकारो भवति । शिशपाः - वृक्षविशेषः ।। ३०६ ॥
T
विष्टपोलप - वातपादयः ॥ ३०७ ॥
विष्टपादयः शब्दाः किद् अपप्रत्ययान्ता निपात्यन्ते । विषेस्तोऽन्तश्च । विष्टपंजगत् सुकृतिनां स्थानं च । वलेरुल् च । उलप - पर्वततृणम्, पङ्कजं जलं च । उलपः ऋषिः । वातेस्तोऽन्तश्च । वातपः ऋषिः । आदिग्रहणात् खरपादयोऽपि भवन्ति ।। ३०७ ॥
कलेरापः ॥ ३०८ ॥
कलि शब्दसंख्यानयो:, इत्यस्मादापः प्रत्ययो भवति । कलापः काञ्चीसमूहः, शिखण्डश्च ।। ३०८ ॥
विशेरिपक् ।। ३०६ ||
विशंत् प्रवेशने, इत्यस्मादिपक् प्रत्ययो भवति । विशिपः- राशिः । विशिपं-तृणं, वेश्म, आसनं, पद्म च ।। ३०६ ।।
दलेरीपो दिल् च ॥ ३१० ॥
दल विशरणे, इत्यस्मादीपः प्रत्ययो भवति । दिल् च स्यादेशो भवति । दिलीप:राजा ।। ३१० ।
उडेरुपक् ।। ३११ ॥