________________
३८६ ]
स्वोपज्ञोणादिगण सूत्र विवरणम्
[ सूत्र- ३२१-३२७
चक्राङ्ग च । स्तम्भेलुक् च । स्तम्बः- तृणं, विटप, संघातः, अङ्कुरसमुदायः, स्तबकः, पुष्पापीडश्च । आदिग्रहणात् कुशाम्बादयो भवन्ति ॥ ३२० ॥
कृ- कडि - कटि - वटेरम्बः ॥ ३२१ ॥
एभ्यः अम्बः प्रत्ययो भवति । डुकृग् करणे, करम्बः - दध्योदनः, दधिसक्तवः, पुष्पं च । कडत् मदे, कडम्बः - जातिविशेषः, जनपदविशेषश्च । कटे वर्षावरणयोः, कटम्ब:पक्वान्नविशेषः, वादित्रं च । कडम्ब - कटम्बौ वृक्षौ च । वट वेष्टने, वटम्बः - शैलः, तृणपुञ्जश्च ।। ३२१ ॥
कदेर्णिद्वा ॥ ३२२ ॥
कद वैक्लव्ये, इति सौत्राद् अम्बः प्रत्ययो भवति, स च णिद्वा भवति । कादम्ब:हंसः । कदम्बः-वृक्षजातिः ।। ३२२ ।।
शिल- विलादेः कित् ॥ ३२३ ॥
शिलादिभ्यः किद् अम्बः प्रत्ययो भवति । शिलत् उञ्छे, शिलम्बः - ऋषिः, तन्तुवायश्च । विलत् वरणे, विलम्बः - वेषविशेषः, रङ्गावसरश्च । आदिग्रहणादन्येऽपि ॥ ३२३॥
हिण्डि - विले: किम्बो नलुक् च ॥ ३२४ ॥
आभ्यां किद् इम्बः प्रत्ययो भवति, नस्य च लुग् भवति । हिडुडु गतौ, विलत् वरणे, हिडिम्बः - विलिम्बश्च राक्षसौ ।। ३२४ ।।
डी-नी-बन्धि-धि-चलिभ्यो डिम्बः ॥ ३२५ ॥
एभ्यः डिद् इम्बः प्रत्ययो भवति । डीङ विहायसा गतौ, डिम्ब :- राजोपद्रवः । णींग प्रापणे, निम्ब:- वृक्षविशेषः । बन्धंश् बन्धने, बिम्बं प्रतिच्छन्दः, देहश्च, बिम्बीवल्लिजाति: । शृघूड् शब्दकुत्सायाम् । शिम्बः - मृगजातिः । शिम्बी-निष्पाववल्ली च । चल कम्पने, चिम्बा - यवागूजातिः ।। ३२५ ।।
कुट्युन्दि - चुरि-तुरि- पुरि मुरि कुरिभ्यः कुम्बः ॥ ३२६ ॥
एभ्यः किद् उम्बः प्रत्ययो भवति । कुटत् कौटिल्ये, कुटुम्बं - दारादयः । उदैप् क्लेदने, उदुम्बः-समुद्रः । चुरण् स्तेये । तुरण् त्वरणे, सौत्रः, चुरुम्बः तुरुम्बश्च - गहनम् । पुरत् अग्रगमने, पुरुम्ब:- आहारः । मुरत् संवेष्टने, मुरुम्ब:- मृद्यमाणपाषाणचूर्णम् । कुरुत् शब्दे, कुरुम्ब:- अङ्कुरः । निपूर्वात् निकुरुम्ब:-राशि: ।। ३२६ ॥
गृ-दु-रमि- हनि-जन्यतिं- दलिभ्यो भः ॥ ३२७ ॥
एम्यो भः प्रत्ययो भवति । गत् निगरणे, गर्भ:- जठरस्थः प्राणी । दृश् विदारणे, दर्भ: - कुशः । रमिं क्रीडायाम्, रम्भा अप्सराः, कदली च । हनंक् हिंसागत्योः, हम्भा - गोधे