________________
३८० ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-२७६-२८१
एते किदनप्रत्ययान्ता निपात्यन्ते । बिदु अवयवे नलोपश्च, बिदनः-गोत्रकृत् । गमेगे च, गगनम्-आकाशम् । गाहौङ विलोडने, ह्रस्वश्च, गहनं-दुर्गमम् । आदिग्रहणात् काञ्चनकाननादयो भवन्ति ।। २७५ ।।
संस्तु-स्पृशि-मन्थेरानः ॥ २७६ ।।
संपूत् स्तोः स्पृशेश्च सन् पूर्वाभ्यां वा स्तु-स्पृशिभ्यां मन्थेश्च आन: प्रत्ययो भवति । ष्टुंग्क् स्तुतौ संस्तवानः-सोम, होता, महषिः, वाग्मी च । स्पृशंत् स्पर्शे, स्पर्शान:मनः, अग्निश्च । मन्थश् विलोडने, मन्थानः खजकः ।। २७६ ।।
यु-युजि-युधि बुधि-मृशि-दृशीशिभ्यः कित् ॥ २७७ ॥
एभ्यः किद् , आनः प्रत्ययो भवति । युक् मिश्रणे, युवानः-तरुणः । युज़ुपी योगे, युजान: सारथिः । युधिंच् संप्रहारे युधानः-रिपुः । बुधिंच ज्ञाने, बुधानः-आचायः, पण्डितो वा। मशंत आमशने, मशानः-विमर्शकः। दृश प्रेक्षणे, दृशानः लोकपालः। यजादिप्रसिद्धक● एते। ईशिक् ऐश्वर्ये, ईशानः-ईश्वरः ।। २७७ ।।
मुमुचान-युयुधान-शिश्विदान-जुहुराण-जिहियाणाः ॥ २७८ ।।
एते किद् आनप्रत्ययान्ता निपात्यन्ते । मुचेद्वित्वं च, मुमुचानः मेघः । एवं युधिंच् संप्रहारे, युयुधानः साहसिकः, राजा च कश्चित् । श्विताङ वर्णे, अस्य दश्व, शिश्विदानःदुराचारो द्विजः। हुर्छा कौटिल्ये, अस्यान्तलुक् च, जुहुराण:-कठिन हृदयः, कुटिलः, अग्निः, अध्वयु:, अनड्वांश्च । ह्रींक लज्जायाम् , जिहियाणः, नीतिमान् । सर्वे एवैते मुच्यादिप्रसिद्धक्रियाकर्तृवचना इत्येके । अन्ये तु मुमुक्षादिसन्नन्तप्रकृतीनामेतन्निपातनं, तेन सन्नन्तक्रियाकर्तृवचना इत्याहुः ।। २७८ ॥
ऋञ्जि-रञ्जि-मन्दि-साहिभ्योऽसानः ॥ २७६ ॥
एभ्यः असानः प्रत्ययो भवति । ऋजुङ भर्जने, ऋजसान:-महेन्द्रः, मेघः, श्मशानं च । रञ्जी रागे, रञ्जसान:-मेघः, धर्मश्च । मदुङ स्तुत्यादिषु, मन्दसानः हंसः, चन्द्रः, सूर्यः, जीवः, स्वप्नः, अग्निश्च । षहि मर्षणे, सहमानः दृढः, मयूरः, यजमानः, क्षमावांश्च । अर्ह पूजायाम् , अर्हसान:-चन्द्रः, तुरङ्गमश्च ।। २७६ ।।
रुहि-यजेः कित् ॥ २८०॥ ___ आभ्यां किद् असानः प्रत्ययो भवति । रुहं जन्मनि, रुहसानः-विटपः । यजी देवपूजासंगतिकरणदानेषु, इजसानः-धर्मः ।। २८० ।।
वृधेर्वा ॥ २८१ ॥
वृधेः असानः प्रत्ययो भवति, स च किद्वा भवति । वृधूड, वृद्धौ, वृधसानः-गर्भः । वर्धसान:-गिरिः, मृत्युः, गर्भः, पुरुषश्च ।। २८१ ॥