________________
सूत्र-२७०-२७५ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ ३७९
वश्च । जि अभिभवे, जयनम्-ऊपटः । टुमस्जोंत् शुद्धौ, मज्जनं-स्नानं, तोयं च । देवा देवने, देवन:-अक्षः, कितवश्च । स्यन्दौङ स्रवणे, स्यन्दनः-रथ: । चदु-दोप्त्याह्लादनयोः, चन्दनं गन्धद्रव्यम् , मदुङ स्तुत्यादौ, मन्दनम्-स्तोत्रम् । मडु भूषायाम् , मण्डनम् अलंकारः । मदैच् हर्षे, मदनः वृक्षः, कामः, मधूच्छिष्टं च । दहं भस्मीकरणे, दहनः अग्निः । वहीं प्रापणे, वहनं-नौः । आदिग्रहणात् पचेः पचन:-अग्निः । पुनातेः, नयनं पवनः वायुः । बिभतः भरणं-साधनम् । नयते: नयनं-नेत्रम् । धुतेः, द्योतन:-सूर्यः। रचेः, रचनावैचित्र्यम् । गृजेः-गृञ्जनम्-अभक्ष्यद्रव्यविशेषः । प्रस्कन्दनः, प्रपतनः इत्यादयो भवन्ति ॥ २६९ ॥
अशो रश्चादौ ।। २७० ॥
अशौटि व्याप्ती, इत्यस्माद् अनः प्रत्ययो भवति रेफश्चादी भवति । रशना मेखला। रशिमेके प्रकृतिमुपादिशन्ति, सा च राशिः, रशना, रश्मिः इत्यत्र प्रयुज्यत इत्याहुः ।। २७० ॥
उन्देर्नलुक् च ॥ २७१ ॥
उन्दैप् क्लेदने, इत्यस्माद् अनः प्रत्ययो भवति, नलोपश्च भवति । ओदन:भक्तम् ।। २७१ ॥
हनेतजघौ च ॥ २७२ ।।
हनक हिंसागत्योः, इत्यस्माद् अनः प्रत्ययो भवति, घतजघावित्यादेशौ चास्य भवतः। घतन: रङ्गोपजीवी, पापकर्मा, निर्लज्जश्च । जघनं श्रोणिः ॥ २७२ ।।
तुदादि-वृजि-रञ्जि-निधाभ्यः कित् ।। २७३ ।।
एभ्यः किद् अनः प्रत्ययो भवति । तुदीत् व्यथने, तुदनः । क्षिपीत् प्रेरणे क्षिपणः । सुरत् ऐश्वर्यदीप्त्योः , सुरणः । बुधिंच ज्ञाने, बुधनः। षिवूच् उतौ, सिवनः । एषां यथासंभवं कारकमुच्यते । लबुङ अवस्र सने, लम्बनः-शकुनिः । वृजैकि वर्जने, वृजिनम्-अन्तरिक्षम् , निवारणं, मण्डनं च । रञ्जी रागे, रजनं-हरिद्रा । महारजनं-कुसुम्भम् , रजनःरङ्गविशेषः । डुधांग्क् धारणे च । निधनम्-अवसानम् ।। २७३ ।।
मू-धू-भू-भ्रस्जिभ्यो वा ॥ २७४ ॥
एभ्यः अनः प्रत्ययो भवति, स च किद्वा भवति पुत् प्रेरणे, सुवनः अङ कुरः, आदित्यः, प्रादुर्भावश्च, सुवनं चन्द्रप्रभा, सवन-यज्ञः पूर्वालापरामध्याह्नकालश्च । त्रिषवणम् । धूत् विधूनने, धुवनः धूमः, वायुः, अग्निश्च, धुवनम्-एधः, धवनम् । भू सत्तायाम् , भुवनं-जगत् , भवनं-गृहम् , भ्रस्जीत् , पाके, भृज्जनम् अन्तरीक्षम् , अम्बरीषः, पाकश्च । भ्रज्जनः-पावकः ।। २७४ ।।
विदन-गगन-गहनादयः॥ २७५ ॥