________________
३७८ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-२६२-२६६
सेर्वा ॥ २६२ ॥
किंग्ट् बन्धने, इत्यस्माद् नः प्रत्ययो भवति, स च किद्वा भवति । सिनः कायः, वस्त्रं, बन्धश्च । सेना-चमूः ।। २६२ ॥
सोरू च ॥ २६३॥
षुग्ट् अभिषवे, इत्यस्मान्नः प्रत्ययो भवति, ऊकारश्चान्तादेशो भवति । सूनाघातस्थानम् , दुहिता, पुत्रः, प्रकृतिः, आघाटस्थानं च ।। २६३ ।।
रमेस्त् च ॥ २६४ ॥
रमि क्रीडायाम् इत्यस्माद् नः प्रत्ययो भवति, तश्चान्तादेशो भवति । रत्नंवज्रादिः ।। २६४॥
क्रुशेवृद्धिश्च ॥ २६५ ॥
क्रुशं आह्वानरोदनयोः, इत्यस्माद् नः प्रत्ययो भवत्यस्य च वृद्धिर्भवति । क्रोश्न:श्वापदः ।। २६५ ॥
द्य-सु-निभ्यो माडोडित् ॥ २६६ ॥
धुसुनिपूर्वात् मांङ क् मानशब्दयोः, इत्यस्मात् डिद् न: प्रत्ययो भवति । द्युम्नंद्रविणम् , सुम्न-सुखम् निम्न-नतम् ॥ २६६ ।। ___ शीङ सन्वत् ॥ २६७ ॥
शोङ क् स्वप्ने इत्यस्मात् , डिद् नः प्रत्ययो भवति स च सन्वद्भवति । शिश्नशेषः ।। २६७ ॥
दिन-नग्न-फेन-चिह्न-अध्न-धेन-स्तेन-च्योक्नादयः ॥ २६८॥
एते नप्रत्ययान्ता निपात्यन्ते । दिव्यते किल्लुक् च, दिनम्-अहः । अपूर्वात् वसेर्गोऽन्तो धातोलुंक्च । न वस्ते, नग्नः-अवसनः । फणेः, फलेः स्फायेर्वा फेभावश्च, फेनः-बुबुदसंघातः। चहेरिच्चोपान्त्यस्य, चिह्नम्-अभिज्ञानम् । बन्धेब्रुध्च । ब्रधनः-रविः, प्रजापतिः, ब्रह्मा, स्वर्गः, पृष्ठान्तश्च । धयतेरेत्वं च, धेना-सरस्वती, माता च, धेनः समुद्रः, ईत्वं चेत्येके, धीना । स्त्यायेस्ते च स्तेनः-चौरः, च्यवतेर्वृद्धिः कोऽन्तश्च । च्योक्नम् अक्षस्थानम् , अनुजः, क्षीणपुण्यश्च । च्योक्नी-कांस्यादिपात्री । आदिशब्दादन्येऽपि ।। २६८ ।। स्वसि-रसि--रुचि-जि-मस्जि-देवि-स्यन्दि चन्दि-मन्दि-मण्डि-मदि-दहि-वह्या
देरनः ।। २६६ ॥ एभ्यः अनः प्रत्ययो भवति । युक् मिश्रणे, यवनाः जनपदः, यवनं मिश्रणम् । अस्च् क्षेपणे, असनः-बोजकः, रसण आस्वादनस्नेहनयोः, रसनाजिह्वा । रुचि अभिप्रोत्यां च, रोचना-गोपित्तम् , रोचनः-चन्द्रः, विपूर्वात् , विरोचन:-अग्निः, सूर्यः, इन्दुः, दान