________________
सूत्र - २५४ - २६१ ]
स्वपज्ञोणादिगणसूत्र विवरणम्
[ ३७७
आरगेर्वधः ॥ २५४ ॥
आङ पूर्वात् रगे शङ्कायाम्, इत्यस्माद् वधः प्रत्ययो भवति । आरग्वधःवृक्षजातिः ।। २५४ ॥
परात् श्रो- डित् ॥ २५५ ॥
परपूर्वात् शृश् हिंसायाम्, इत्यस्मात्, डित् वधः प्रत्ययो भवति । परश्वध:आयुधजातिः ।। २५५ ॥
इषेरुधक् ।। २५६ ।।
इषत् इच्छायाम् इत्यस्माद् उधक् प्रत्ययो भवति । इषुध: - याञ्चा ।। २५६ ।।
कोरन्धः ॥ २५७ ॥
कुङ शब्दे, इत्यस्माद् अन्धः प्रत्ययो भवति । कवन्धः - छिन्नमूर्धा देहः ।। २५७ ।।
धान्यनि- स्वदिस्वपि वस्यज्यति- सिविभ्यो नः ॥ २५८ ॥
एभ्यो नः प्रत्ययो भवति । प्येक वृद्धी, प्यानः समुद्रः चन्द्रश्च । डुघांग्क् धारणेच, धाना-भृष्टः यव:, अङ्कुरश्च । पनि स्तुतौ, पन्नं- नीचैः करणम्, सृन्नं, जिह्वा च । अनक् प्राणने, अन्नं भक्तम्, आचारश्च । ष्वदि आस्वादने, स्वन्नं रुचितम् । त्रिष्वपंक् शये, स्वप्नः मनोविकारः, निद्रा च । वसं निवासे, वस्नं- वास:, मूल्यम् मेढ्रम्, आगमश्च । अज क्षेपणे च, वेनः प्रजापतिः, ध्यानी, राजा, वायुः यज्ञः, प्राज्ञः, मूर्खश्च । अत सातत्यगमने, अत्नः - आत्मा, वायुः, मेघः प्रजापतिश्च । षिवृच् उतौ, स्योनं सुखम्, तन्तुवायसूत्रसंतान:, समुद्रः, सूर्यः, रश्मिः, आस्तरण च ।। २५८ ।।
"
सेर्णित् ।। २५६ ।।
सक् स्वप्ने इत्यस्मात् णिद् नः प्रत्ययो भवति । सास्ना- गोकण्ठावलम्बि चर्म, निद्रा च ।। २५६ ॥
रसेर्वा ।। २६० ।।
रसशब्दे इत्यस्माद् न प्रत्ययो भवति, स च णिद् वा भवति । रास्ना धेनुः औषविजातिश्च । रस्नं - द्रव्यजातिः, रस्ना-जिह्वा, रस्नः - तुरङ्ग, दण्डश्च ।। २६० ।।
जीण-शी- दी. बुध्यवि-मीभ्यः कित् ॥ २६१ ॥
एभ्यः किद् नः प्रत्ययो भवति । जि अभिभवे, जिन:- अर्हन्, बुद्धश्च । इंक गतौ, इन:- स्वामी, संनिपातः, ईश्वरः, राजा, सूर्यश्च । शीङक् स्वप्ने, शीनः पीलुः । दीङ् च् क्षये । दीनः, कृपणः, खिन्नश्च । बुधिच् ज्ञाने बुध्नः - मूलं, पृष्ठान्तः, रुद्रश्च । अव रक्षणाद, ऊनम् - अपरिपूर्णम् । मीङ च् हिंसायाम्, मीन :- मत्स्यः, राशिश्च ।। २६१ ।।