________________
स्वोपज्ञोणादिगणसूत्र विवरणम्
श्या कठि खलि-नल्यवि कुण्डिभ्य इनः ॥
२८२ ॥
एभ्य इन: प्रत्ययो भवति । श्यैङ गतौ श्येन:- पक्षी, अभिचारयज्ञश्च । कठ कृच्छ्रजीवने, कठिनम् अमृदु । खल संचये च खलिनम् अश्वमुखसंयमनम् । णल गन्धे, नलिनं- पद्मम् । अव रक्षणादौ अविनं जलं मृगः, नाशः अग्निः, राजा, अध्वर्यु:, विधानं, गुप्तिश्च । कुडुङ दाहे, कुण्डिनः ऋषिः, कुण्डिनं - नगरम् ।। २८२ ।।
सूत्र २८२ - २६६ ]
[ ३८१
वृजि- तुहि- पुलि - पुटिभ्यः कित् ॥ २८३ ॥
एभ्यः कि इनः प्रत्ययो भवति । वृजैकि वर्जने, वृजिनं पापं कुटिलं च । तुहृ अर्दने, तुहिनम् - हिममन्धकारश्च । पुल महत्त्वे, पुटत् संश्लेषणे, पुलिनं, पुटिनं च-नदीतीरं, वालुका संघातश्च ।। २८३ ।।
विपिनाजिनादयः ॥ २८४ ॥
विपिनादयः शब्दाः किद् इनप्रत्ययान्ता निपात्यन्ते । डुवपी बीजसंताने, टुवेपृङ चलने इत्यस्य वा इच्चोपान्त्यस्य । विपिनं - गहनम्, अब्जं, जलदुर्गं च । अज क्षेपणे च, अस्य वीभावाभावश्च । अजिनं चर्म । आदिग्रहणादन्येऽपि ।। २८४ ।।
महेर्णिद्वा ॥ २८५ ॥
मह पूजायाम्, इत्यस्माद् इनः प्रत्ययो भवति स च किद्वा भवति । माहिनं राज्यं, बलं च । महिनं राज्यं, शयनं च । महिनः - माहात्म्यवान् ।। २८५ ।।
खलि-हिंसिभ्यामीनः ॥ २८६ ॥
आभ्याम् ईनः प्रत्ययो भवति । खल संचये च खलीनं कवियम् । हिसुप् हिंसायाम्, हिंसीन :- श्वापदः ।। २८६ ।।
पठेत् ॥ २८७ ॥
पठ व्यक्तायां वाचि, इत्यस्मात् णिद् ईनः प्रत्ययो भवति । पाठीनः मत्स्यः ॥ २८७ ॥ यम्यजि-शक्य- जिं-शी-यजि-तुभ्य उनः ॥ २८८ ॥
एभ्य उन प्रत्ययो सवति । यमू उपरमे, यमुना नदी । अज क्षेपणे च वयुनंविज्ञानम्, अङ्ग ं च, वयुन:- विद्वान्, चन्द्रः, यज्ञश्च । शक्लृट् शक्ती, शकुनः - पक्षी । अर्ज अजुने, अर्जुनः- ककुभः, वृक्षविशेषः, पार्थः, श्वेतवर्णः, श्वेताश्वः, कार्तवीर्यश्च । अर्जुनीगौः । अर्जुनं तृणं, श्वेतसुवर्णं च । शीङ्क् स्वप्ने, शयन:- अजगरः । यजीं देवपूजादौ, यजुनाऋतुद्रव्यम् । तॄ प्लवनतरणयोः, तरुणः समर्थः, युवा, वायुश्च । ऋफिडादित्वाल्लत्वे तलुनः ।। २८८ ।।
लषेः शू च ॥ २८६ ॥