________________
३७४ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-२२९-२३५
अवभृ-निऋ-समिणभ्यः ।। २२६ ।।
अवपूर्वाद् बिभर्तेः, निस्पूर्वादतः, सम्पत् िएतेश्च कित् थः प्रत्ययो भवति । अवभृथ:-यज्ञावसानं, यज्ञस्नानं च, निऋथ:-निकायः, निऋथं-स्नानम् । समिथः-संगमः, गोधूमपिष्टं च, समिथं-समूहः ।। २२९ ॥
सतर्णित् ॥ २३०॥ सृ गती, इत्यस्माद् णित् थःप्रत्ययो भवति । सार्थः समूहः ॥२३०॥ पथ-यूथ-गूथ-कुथ-तिथ-निथ-सूरथादयः ॥ २३१ ॥
एते थप्रत्ययान्ता निपात्यन्ते । पलतेो लुक् च, पथः पन्थाः । यौतेगुवतेश्च दीर्घश्च यूथ:-समूहः, गूथम् -अमेध्यं विष्ठा च । किरतेः करोतेर्वा कुश्च, कुथ:-कुथा वाआस्तरणम् । तनोतेस्तिष्ठतेर्वा तिश्च तिथः-काल: । तिम्यते, तिथ:-प्रावृट्काल: । नयतेह्रस्वश्च, निथः-पूर्वक्षत्रियः कालश्च । सुपूर्वात् रमेः सोर्दीर्घश्च कित् च । सूरथ:-दान्तः । आदिग्रहणाद निपूर्वाद रौतेर्दीर्घत्वं च निरुथः-दिक , निरूथं-पुण्यक्रमनियतम् । एवं संगीथप्रगाथादयोऽपि ।। २३१ ॥
भृ-शी-शपि-शमि-गमि-रमि-वन्दि-वश्चि-जीवि-प्राणिभ्योऽथः ॥ २३२ ॥
एभ्योऽथ: प्रत्ययो भवति । टुडुइंग्क् च, भरथः-कैकयीसुतः, अग्निः, लोकपालश्च । शोङ क स्वप्ने, शयथ:-अजगरः, प्रदोषः, मत्स्यः, वराहश्च । शपी आक्रोशे, शपथः-प्रत्ययकरणम्, आक्रोशश्च । शमूच उपशमे, शमथ:-समाधिः, आश्रमपदं च । गम्लु गतौ, गमथःपन्थाः, पथिकश्च । रमि क्रीडायाम् , रमथः-प्रहर्षः । वदुङ् स्तुत्यभिवादनयोः, वन्दथ:स्तोता, स्तुत्यश्च । वञ्चू गतो, वंचथः-अध्वा, कोकिलः काकः, दम्भश्च । जीव प्राणधारणे, जीवथ:-अर्थवान् , जलम् , अन्न, वायुः, मयूरः, कूर्मः, धार्मिकश्च । अनक प्राणने, प्राणथः-बलवान्, ईश्वरः, प्रजापतिश्च ।। २३२ ॥
उपसर्गाद्वसः ॥ २३३ ॥
उपसर्गात् परस्मात् वसं निवासे, इत्यस्मादथः प्रत्ययो भवति । आवसथः-गृहम् , उपवसथः-उपवासः, संवसथः-संवासः, सुवसथः-सुवासः, निवसथ:-निवासः ॥ २३३ ॥
विदि-भिदि-रुदि-द्रहिभ्यः कित् ॥ २३४ ॥
एभ्यः किदथः प्रत्ययो भवति । विदंक ज्ञाने, विदथ:-ज्ञानी, यज्ञः अध्वयुः, संग्रामश्च । भिदृपी विदारणे, भिदथः-शरः । रुदृक् अश्रुविमोचने, रुदथः बालः, असत्त्वः, श्वा च । द्रुहीच जिघांसायाम् , द्रुहथः-शत्रुः ।। २३४ ॥ .
रोर्वा ॥ २३५॥
रुक् शब्दे, इत्यस्मादथः प्रत्ययो भवति, सच किद्वा भवति । रुक्थः- शकुनिः, शिशुश्च । रवथः-आक्रन्दः, शब्दकारश्च ।। २३५ ।।