________________
सूत्र-२३६-२४४ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ ३७५
ज-वृ-भ्यामूथः ।। २३६ ॥
आभ्यामूथः प्रत्ययो भवति । जृष्च् जरसि, जरूथः-शरीरम् अग्रमांसम् , अग्निः, संवत्सरः, मार्गः, कल्मषं च । वृग्श् , वरुणे, वरूथः-वर्मः, सेनाङ्ग, बलसंघातश्च ।।२३६।।
शा-शपि-मनि-कनिभ्यो दः ॥२३७॥
एभ्यो द: प्रत्ययो भवति । शोंच तक्षणे, शाद:-कर्दमः, तरुणतृणं, मृदुः, बन्धः, सुवर्ण च । शपी आक्रोशे, शब्द:-श्रोत्रग्राह्योऽर्थः। मनिच् ज्ञाने, मन्दः-अलसः, बुद्धिहीनश्च । कनै दीप्त्यादिषु कन्द:-मूलम् ।। २३७ ॥
आपोऽप् च ॥ २३८॥
आप्लृट् व्याप्ती, इत्यस्मात् दः प्रत्ययो भवति । अस्य चाप इत्ययमादेशो भवति । अब्द-वर्षम् ।। २३८ ।।
गोः कित् ॥ २३ ॥ गुंत् पुरीषोत्सर्गे, इत्यस्मात् कित् दः प्रत्ययो भवति 1 गुदम्-अपनाम् ॥ २३९ ।। वृ-तु-कु-सुभ्यो नोऽन्तश्च ॥ २४ ॥
एभ्यः कित् दः प्रत्ययो भवति, नकारश्चान्तादेशो भवति । वृग्ट् वरणे वृन्दंसमूहः तुंक् वृत्त्यादिषु, तुन्दं जठरम् । कुङ शब्दे, कुन्दः-पुष्पजातिः । भुंग्ट् अभिषवे, सुन्दः-दानवः ॥ २४० ॥
कुसेरिदेदौ ॥ २४१ ।।
कुस्च् श्लेषे, इत्यस्मात् इद ईद इत्येतो किती प्रत्ययो भवतः । कुसिदम्-ऋणम् ; कुसीद-वृद्धिजीविका ।। २४१ ।।
इङ्ग्यविभ्यामुदः ॥ २४२॥
आभ्यामुदः प्रत्ययो भवति । इगु गती, इङ गुद:-वृक्षजातिः । अर्ब गतौ, अर्बुद:- . पर्वतः अक्षिव्याधिः, संख्याविशेषश्च । निपूर्वात् न्यर्बु दम्-संख्याविशेषः ।। २४२ ।।
ककेर्णिद्वा ॥ २४३ ।।
ककि लौल्ये, इत्यस्मादुदः प्रत्ययो भवति, स च णिद्वा भवति । कांकुदं-तालु, ककुदं स्कन्धः ।। २४३ ॥
कुमुद-बुबुदादयः ॥ २४४॥
एते उदप्रत्ययान्ता निपात्यन्ते । कमेः कुम् च कुमुदं-कैरवम् । बुन्देः किद् वोऽन्तश्च, बुबुदः-जलस्फोटः, बुबुदः नेत्रजो व्याधिः । आदिग्रहणात् दूहीक क्षरणे प्रत्ययादेरत्वे, दोहदः-अभिलाषविशेषः । एवमन्येऽपि ।। २४४ ।।