________________
सूत्र-१२४-१३१ ।
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ ३५९
एभ्य इञ्चक् प्रत्ययो भवति । कुटेः, कुटिञ्च:-क्षुद्रकर्कटः । कुले:, कुलिञ्च:राशिः । कले:, कलिञ्चः-उपशाखावयवः । उद आघाते सौत्रः, उदिञ्च कोणः येन तूर्य वाद्यते, परपुष्टश्च ।।१२३।।
तुदि-मदि-पद्यदि-गु-गमि-कचिम्यच्छक् ॥ १२४ ॥
एभ्यश्छक् प्रत्ययो भवति । तुदीत् व्यथने, तुच्छ:-स्तोकः । मदैच् हर्षे, मच्छ:मत्स्यः, प्रमत्तपुरुषश्च; मच्छा-स्त्री। पदिच् गतौ, पच्छः-शिला। अदंक भक्षणे, अच्छ:निर्मलः । गुङ, शब्दे, गुच्छः स्तबकः । गम्लु गतौ, गच्छः क्षुद्रवृक्षः। कचि बन्धने, कच्छः कूर्मपादः, कुक्षिः नद्यवकुटारश्च । कच्छा जनपदः । बाहुलकात् कत्वाभावः ।१२४॥
पीपूडोह्र स्वश्च ॥ १२५॥
आभ्यां छक् प्रत्ययो भवति, ह्रस्वश्च भवति । पीङच् पाने, पिच्छम्-शकुनिपत्त्रम्, पिच्छ:-गुणविशेषः । यद्वान् पिच्छिल उच्यते । पूङ पवने, पुच्छं वालधिः ॥१२॥
गुलुञ्छ-पिलिपिञ्छघिच्छादयः ॥ १२६ ॥
एते छप्रत्ययान्ता निपात्यन्ते । गुडेल उम् चान्तः, गुलुञ्छः स्तवकः। पीलेरिपि नोन्तो ह्रस्वश्च, पिलिपिञ्छ:-रक्षाविशेषः । एधेरिट च, एघिच्छः-नगः। आदिग्रहणात् पिञ्छादयोऽपि भवन्ति ।। १२६ ॥
वियो जक् ॥ १२७॥
वींक् प्रजनकान्त्यसनखादनेषु च, इत्यस्मात् जक् प्रत्ययो भवति । बीजम्उत्पत्तिहेतुः ॥ १२७ ॥
पुवः पुन च ॥ १२८॥
पूङ पवने, इत्यस्मात् जक् प्रत्ययो भवति । अस्य च पुन् इत्यादेशो भवति । पुजः राशिः ॥१२८॥
कुवः कुकुनौ च ॥ १२६ ॥
कुङ शब्दे, इत्यस्मात् जक् प्रत्ययो भवति । अस्य च कुष् कुन् इत्यादेशौ भवतः । कुब्जः-वक्रानताङ्गः, गुच्छश्च । कुञ्जः-हनुः, पर्वतैकदेशश्च । निकुञ्जः-गहनम् ॥१२६॥
कुटेरजः ॥ १३०॥
कुटत् कौटिल्ये, इत्यस्मादजः प्रत्ययो भवति । कुटजः-वृक्षविशेषः। कुटादित्वात् टित्त्वम् , कुटजी ।। १३०॥
भिषेभिषभिष्णौ च वा ॥ १३१ ॥