________________
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र - १३२-१४१
भिषेरजः प्रत्ययो भवति, भिषभिष्ण इत्यादेशौ चास्य वा भवतः । भिषिः सौत्रः, भिषजः । आदेशबलान्न गुणः । भिष्णज:- वैद्यः, भेषजम् - औषधम् ।।१३१॥
३६० ]
मुर्वेर्मु र् च ॥ १३२ ॥
मुर्वे बन्धने इत्यस्मादजः प्रत्ययो भवति । अस्य च मुर् इत्यादेशो भवति । मुरज:मृदङ्गः ।। १३२ ।
बलवन्तश्च वा ॥ १३३ ॥
बल प्राणनघान्यावरोधयोः, इत्यस्मात् अजः प्रत्ययो भवति, वकारश्चान्तो वा भवति । बल्वजः मुञ्जविशेषः । बलजा - सबुसो धान्यपुञ्जः ।। १३३ ।
उटजादयः ॥ १३४ ॥
उटजादयः शब्दा अजप्रत्ययान्ता निपात्यन्ते, वटेर्वस्योत्वं च । उटजं मुनिकुटीरः । आदिशब्दात् भूर्ज भरुजादयो भवन्ति ।। १३४ ।
कुलेरिजक् ।। १३५ ।।
कुल बन्धु संस्त्यानयोः, इत्यस्मात् इजक् प्रत्ययो भवति । कुलिजं-मानम् ॥१३५ ।। कृगोऽञ्जः ॥ १३६ ॥
करोतेरञ्जः प्रत्ययो भवति । करञ्जः - वृक्षजातिः ।। १३६ ।।
झमेर्झः ॥ १३७ ॥
झमू अदने, इत्यस्मात् झः प्रत्ययो भवति । झञ्जा - सशीकरो मेघवातः ॥ १३७॥
लुषेष्टः ॥ १३८ ॥ .
लुष स्तेये, इत्यस्माट्टः प्रत्ययो भवति । लोष्टोमृत्पिण्डः ॥ १३८ ॥
नमि-तनि-जनि वनि-सनो लुक् च ॥ १३६ ॥
एभ्यष्टः प्रत्ययो भवति, लुक् चान्तस्य भवति । जमं प्रह्वत्वे, नटः - भरतपुत्रः । तनूयी विस्तारे, तटंकूलम् । जनैचि प्रादुर्भावे, जटा - ग्रथितकेशसंघातः । वन षण संभक्ती, वट: - न्यपोधः । सटा - अग्रथितः केशसंघातः ।। १३९ ।।
जनि पणि किजुभ्यो दीर्घव ॥ १४० ॥
एभ्यष्टः प्रत्ययो भवति, दीर्घश्चैषां गुणापवादो भवति । जनैचि प्रादुर्भावे, पणि व्यवहार स्तुत्योः, जाण्ट:, पाण्ट:- वृक्षविशेषावेतौ । किजू सौत्रौ, कीटः- क्षुद्रजन्तुः । जूटः मौलिः ।। १४० ।।
घटा घाटा घण्टादयः ॥ १४१