________________
स्वोपज्ञोणादिगणसूत्रविवरणम्
[सूत्र-११५-१२३
एभ्योऽचः प्रत्ययो भवति । कलि शब्दसंख्यानयोः, कलचः-गणकः । अव रक्षणादौ, अवचः-उच्चस्तरः। मदेच् हर्षे, मदचः मत्तः । मण शब्दे, मणचः-शकुनिः । कुङ शब्दे, कवचं-वर्म । कण शब्दे, कणचः-कणयः । कुटत् कौटिल्ये, कुटचः वृक्षजातिः, कृत् विक्षेपे, करचः-धान्यावपनम् ।। ११४ ।।
क्रकचादयः ॥ ११५॥
क्रकच इत्यादयः शब्दा अचप्रत्ययान्ता निपात्यन्ते । क्रमेः कश्च,त्रकचः-करपत्रः । आदिशब्दादन्येऽपि ॥ ११५ ।।
पिशेराचक् ॥ ११६ ॥ पिशत् अवयवे, इत्यस्मादाचक् प्रत्ययो भवति । पिशाचः-व्यन्तरजातिः ॥११६॥ मृ-त्रपिभ्यामिचः ॥ ११७ ॥
आभ्यामिचः प्रत्ययो भवति । मृत् प्राणत्यागे, मरिचम् ऊषणम् । त्रप्रौषि लज्जायाम् , त्रपिचा-कुथा ।। ११७ ॥
म्रियतेरीचण ॥ ११८॥ मृत् प्राणत्यागे, इत्यस्मादीचण् प्रत्ययो भवति । मारोचः-रावणमातुलः ॥११८।। लषेरुचः कश्च ॥ ११६ ॥
लषी कान्तौ । इत्यस्मादुचः प्रत्ययो भवति । अन्त्यस्य च को भवति । लकुच:वृक्षजातिः ।। ११६ ।।
गुडेरूचट् ॥ १२० ॥
गुडत् रक्षायाम् , इत्यस्मादूचट् प्रत्ययो भवति । गूडूची-छिन्नल्हा । कुटादित्वाद टित्त्वम् ।। १२० ॥
सिवेडिंत् ॥ १२१॥ __ षिवूच ऊतो, इत्यस्यात् उचट् प्रत्ययो डित् भवति । सूचः-पिशुनः, स्तिभिश्चः । सूची-संधानकरणी ॥१२१॥
चि-मेडोंचडश्चौ. ॥ १२२ ॥
चिमिभ्यां प्रत्येकं डोच डञ्च इति प्रत्ययो भवतः। वचनभेदान्न यथासंख्यम् । चिम्ट् चयने, चोचः वृक्षविशेषः, चञ्चा-तृणमयः पुरुषः। डुमिंगट प्रक्षेपणे, मोचा-कदली, मञ्चःपर्यङ्कः ।।१२२॥
कुटि-कुलि-कम्युदिभ्य इश्वक् ॥ १२३ ॥